________________
रघुवंशमहाकाध्ये अथवा मम भाग्यविप्लवादशनिः कल्पित एव वेधसा। यदनेन तरुन पातितः क्षपिता तद्विटपाश्रिता लता ॥४७।।
संजी०--अथवेति । अथवा मम भाग्यस्य विप्लवाद्विपर्ययात् एषः । स्रगित्यर्थः । विधेयप्राधान्यात्पुंलिङ्गनिर्देशः । वेधसा विधात्राऽशनिवैद्युतोऽग्निः कल्पितः । 'दम्भोलिरशनियोः' इत्यमरः । अपूर्वत्वमेव स्पष्टयति-यद्यस्मात्कारणात् । अनेनाप्यशनिना प्रसिद्धाशनिना तरुस्तरुस्थानीयः स्वयमेव न पातितः । किंतु तस्य तरोविटपाश्रिता लता वल्ली क्षपिता नाशिता ॥४७॥ ___ अन्वयः-अथवा मम भाग्यविप्लवात् एषः वेधसा अशनिः कल्पितः यत् अनेन तरुः न पातितः 'किन्तु' तहिटपाश्रिता लता क्षपिता ।
व्याख्या-अथवा-पक्षान्तरे मम-अजस्य भज्यतेऽनेन तत् भाग्यम् भाग्यस्य= देवस्य= शुभाशुभकर्मणः इत्यर्थः विप्लवः विपर्ययस्तस्मात् भाग्यविप्लवात दौर्भाग्यादित्यर्थः एषः स्रगरूपः विदधाति सर्वमिति वेधाः तेन वेधसा-विधात्रा प्रश्नाति अश्यते वा अनेनेति अशनिः- दम्भोलिः वज्रमित्यर्थः कल्पितः निर्मितः, यत्-यस्माकारणात् अनेनापि-अशनिना प्रसिद्धन अशनिना इव इत्यर्थः तरुः-तरुस्थानीयोऽजः नम्नहि पातितः=विनाशितः किन्तु विटान् पाति-रक्षतीति विटपः तस्य-तरोः विटप:- शाखा इति तद्विटपस्तम् आश्रिता-पाश्रयं गता लतति-वेष्टयतीति लतावल्ली क्षपिता नाशिता।
समासः-भाग्यस्य विप्लवस्तस्मात् भाग्यविप्लवात् । तस्य विटपस्तद्विटपः तद्विटपम् आश्रिता इति तद्विटपाश्रिता।
हिन्दी-अथवा मेरे दुर्भाग्य से विधाता ने यह मालारूपी वज्र बना दिया । जो कि इसने वृक्षरूपी मुझे तो नहीं गिराया किन्तु मेरे आश्रित इन्दुमती को नष्ट कर दिया । अर्थात् जैसे आकाश से गिरने वाली बिजली वृक्ष को नहीं गिराती है किन्तु उस वृक्ष की शाखा में लिपटी हुई लता को नष्ट कर देती है, वैसे ही इस मालारूपी बिजली ने किया है ॥४७॥
कृतवत्यसि नावधारणामपराद्धेऽपि यदा चिरं मयि । कथमेकपदे निरागसं जनमाभाध्यमिमं न मन्यसे ? ॥४८॥