________________
अष्टमः सर्गः
११५ इति दयिता तां दयितां-प्रियाम् इन्दुमतीम् अन्वगात् अन्वगच्छत् यदि= एव अत्र यदिः अवधारणे वर्तते, तर्हि तया दयितया विनाऋते किं-किमर्थं विनिवृत्त प्रत्यागतम् अत एव प्रात्मना-स्वेन कृतम् चेष्टितमिति आत्मकृतं तेन प्रात्मकृतेनस्वदुश्चेष्टितेन प्रत्यागमनरूपेण प्रबलाम्=अधिकां वेदनां-दुःखं सहताम् क्षमताम्, स्वयंकृतेषु अपराधेषु तत्सहनमेव शरणमिति भावः।
समासः-हतञ्च तत् जीवितमिति हतजीवितम् । आत्मना कृतम् तेन प्रात्मकृतेन ।
हिन्दी-मेरे ये नीच प्राण, पहले प्यारी इन्दुमती के पीछे चले ही गए थे, तो फिर प्यारी इन्दुमती के बिना क्यों लौट पाए ? इसीलिए अपनी नीच करनी से खूब दुःख भोगें । अर्थात् अपने किये पापों को सहन करना हो शरण है ॥५०॥
सुरतश्रमसभृतो मुखे ध्रियते स्वेदलवोद्गमोऽपि ते । अथ चास्तमिता त्वमात्मना धिगिमां देहभृतामसारताम् ।।५१॥
सेनी०--सुरतेति । सुरतश्रमेण संभृतो जनितः स्वेदलवोद्गमोऽपि ते तव मुखे 'ध्रियते वर्तते । अथ च त्वमात्मना स्वरूपेणास्तं प्राप्ता। अतः कारणाद् देहभृतां प्राणिनामिमां प्रत्यक्षामसारतामस्थिरतां धिक् ॥५१॥
अन्वयः-सुरतश्रमसंभृतः स्वेदलवोद्गमः अपि ते मुखे ध्रियते अथ च स्वम् श्रात्मना अस्तमिता 'अतः' देहभृताम् इमाम असारतां धिक् ।
व्याख्या-सु-सम्यक सुष्ठु वा रमणं सुरतं, सुरते-सम्भोगे यः श्रमः-खेदस्तस्मिन् संभृतः उत्पन्नः, इति सुरतश्रमसंभृतः स्विद्यतेऽनेन शरीरमिति स्वेदः स्वेदस्य घर्मस्य लूयते इति लवः बिन्दुस्तस्य उद्गमः-आविर्भावः, इति स्वेदलवोद्गमः अपि ते-तव मुखे-पानने ( खन्धातोरच प्रत्ययः मुडागमः सच डित् ) ध्रियते अस्ति वर्तते अथ च-एवमपि त्वम् इन्दुमती
आत्मना स्वरूपेण अस्तं नाशम् इता=गता, अतः कारणात् दिह्यते उपचीयते इति देहः देहं शरीरं बिभ्रति धारयन्तीति ते, तेषां देहभृतां प्राणिनाम् इमाम्-प्रत्यक्षाम् सरति कालान्तरमिति सारः न सारोऽत्र असारस्तस्य भावस्तत्ता ताम् असारताम् = अस्थिरतां धक्कयतीति धिक् भर्त्सनम् धिक्कार इत्यर्थः ।