________________
प्रथमः सर्गः इति, श्लाघाविपर्ययः, 'इत्यं तस्य = राज्ञो दिलीपस्य गुणाः=ज्ञानादया, गुण। मोनादिभिः, विरुधैः, अनुबन्धित्वं = सहचारित्वमिति तस्मात् गणानुबन्धित्वात्, सह प्रसवः= जन्म येषां ते सप्रसवाः= सहोदरा, इव = यथा, अभूवन् ।
समा० - श्लाघायाः विपर्ययः श्लाघाविपर्ययः। अन बध्नन्ति इति अनबन्धिनः, अनुबन्धिनां भावः अनुबन्धित्वम् गुणः अनुबन्धित्वम् गुणानुबन्धित्वम् तस्मात् गुणानुबन्धित्वात् । सह प्रसवः येषाम् ते सप्रसवाः।
अभि०--तस्मिन् दिलीपे, परस्परविरुद्धा अपि ज्ञानमोनादिगुणाः, सोदरा, इव, एकत्राभूवन् ।
हिन्दी--दूसरों की बात जानकर भी चुप रहना, शत्रु से बदला लेने की सामर्थ्य रहते भी क्षमा करना, तथा दान देकर आत्मप्रशंसा न करना, इस प्रकार दिलीप के ज्ञानादि गुण, मौनादि विरुद्ध गणों के साथ रहने के कारण सगे भाई जैसे जान पड़ते थे। अर्थात् दिलीप में, परस्पर विरोधी गुण बिना विरोध के रहते थे ॥२२॥ द्विविधं वृद्धत्वम् ज्ञानेन वयसा च । तत्र तस्य ज्ञानेन वृद्धत्वमाह
अनाकृष्टस्य विषयैर्विद्यानां पारदृश्वनः।
तस्य धर्मरतेरासीद् वृद्धत्वं जरसा विना ॥२३॥ सञ्जीविनी-विषयः शब्दादिभिः 'रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी' इत्यमरः । अनाकृष्टस्यावशीकृतस्य विद्यानां वेदवेदाङ्गादीनां पारदश्वनः पारमन्तं दृष्टवतः। दृशेः क्वनिप् । धर्म रतिर्यस्य तस्य राज्ञो जरसा विना । 'विस्रसा जरा' इत्यमरः । 'षिद्भिदादिभ्योऽङ' इत्यङप्रत्ययः, 'जराया जरसन्यतरस्याम्' इति जरसादेशः । वृद्धत्वं वार्धकमासीत् । तस्य यूनोऽपि विषयवैराग्यादिज्ञानगुणसंपत्त्या ज्ञानतो वद्घत्वमासीदित्यर्थः । नाथस्तु चतुर्विषं वृद्धत्वमिति ज्ञात्वा 'अनाकृष्टस्य' इत्यादिना विशेषणत्रयेण वैराग्यज्ञावशीलवृद्धत्वान्युक्तानीत्यवोचत् ॥२३॥
अन्वयः--विषयः अनाकृष्टस्य, विद्यानां, पारवृश्वनः, धर्मरतेः, तस्य, जरसा विना, वृद्धत्वम्, आसीत् ।
वाच्य--धर्मरतेस्तस्य जरसा विना वृद्धत्वेनाभावि ।