________________
रघुवंशमहाकाव्ये धनं =वित्तमिति यावत्, आददे = स्वीचकार= स्वीकृतवानित्यर्थः, न सक्तः, असक्तः= आसक्तिरहितः, 'सन्' सुखम् = आनन्दम्, अन्वभूत = अनुभूतवान् ।
समा०-न प्रस्तः अत्रस्तः, न आतुरः अनातुरः, न गृध्नुः अगृध्नुः, न सक्तः असक्तः ।
अभि०--राजा दिलीपो भीत्या शरीरं न रक्षितवान् किन्तु अभीत एव, रोगात् धर्म न पालयामास, अपितु स्वस्थ एव, एवं लोभस्य कारणाद् धनं नाददे किन्तु अलुब्ध एव, एवं सुखानुभवमपि आसक्तिरहित एवान्वभूत् ।
हिन्दी-राजा दिलीप निडर होकर अपनी रक्षा करते थे, नीरोग होकर धर्म की सेवा करते थे एवं लोभ छोड़कर धन का संग्रह करते थे, तथा आसक्ति (मोह) को त्यागकर सांसारिक सुखों का अनुभव करते थे ॥२१॥ परस्परविरुद्धानामपि गुणानां तत्र साहचर्य मासीदित्याह
ज्ञाने मौनं क्षमा शक्तौ त्यागे श्लाघाविपर्ययः ।
गुणा गुणानुबन्धित्वात्तस्य सप्रसवा इव ॥२२॥ सञ्जीविनी-ज्ञाने परवृत्तान्तज्ञाने सत्यपि मौनं वाङनियमनम् । यथाह कामन्दक:-'नास्योपतापि वचनं मौनं व्रतचरिष्णुता' इति । शक्ती प्रतीकारसामर्थेऽपि क्षमापकारसहनम् । अत्र चाणक्य:--'शक्तानां भूषणं क्षमा' इति । स्यागे वितरणे सत्यपि इलाघाया विकत्यनस्य विपर्ययोऽभावः । अत्राह मनुः--'न दत्वा परिकीर्तयेत्' इति । इत्यं तस्य गुणा ज्ञानादयो गुणविरुधौनादिभिरनुबन्धित्वात्सहचारित्वात् । सह प्रसवो जन्म येषां ते सप्रसवाः सोदरा इवाभूवन् । विरुद्धा अपि गुणास्तस्मिन्नविरोधेनैव स्थिता इत्यर्थः ॥२२॥
अन्वयः--ज्ञाने, मौनं, शक्ती, क्षमा, त्यागे, इलाषाविपर्ययः 'इत्थं तस्य, गुणा: गणानुबन्धित्वात्, सप्रसवाः, इव, 'अभवन् ।
वाच्य०--जाने मौनेन, शक्ती क्षमया, त्यागे श्लाघाविपर्ययेण, तस्य गुणः गुणानुबन्धित्वात् सप्रसर्वरिव अभावि ।
व्याख्या-जाने = परवृत्तान्तज्ञाने सत्यपि, मौनं = मौनावलम्बनम्, शक्ती प्रतीकारसामर्थेऽपि, क्षमा = क्षमाकरणम् = अपकारसहनमित्यर्थः, त्यागे = दाने सत्यपि, श्लाघायाः-विकत्थनस्य= आत्मप्रशंसाया इत्यर्थः, विपर्ययोऽभाव