________________
प्रथमः सर्गः
प्राक्तनाः-पूर्व जन्मभवाः, संस्काराः- पूर्वकर्मवासनाः, इव = यथा, फलेन = कार्येण, अनुमेयाः= ज्ञेयाः, इति फलानुमेयाः 'आसन्' ।
समा-संवृतः मन्त्रः यस्य सः संवृतमन्त्रः तस्य संवतमन्त्रस्य । आकाराच इङ्गितं च आकारेङ्गिते, गूढे आकारेङ्गिते यस्य सः गूढाकारेङ्गितः, तस्य गूढाकारेङ्गितस्य ।प्रारभ्यन्ते इति प्रारम्भाः। अनुमातुम् योग्याः अनुमेयाः, फलेन अनुमेयाः फलान मेयाः। ___ अभिल-गुप्तमंत्राकारचेष्टितस्य राज्ञो दिलीपस्य कार्याणि तथैव फलानमेयानि आसन् यथा पूर्वजन्मसंस्काराः फलानुमेया भवन्ति ।
हिन्दी-सर्व प्रकार से मंत्रणा को गुप्त रखनेवाले तथा और बाहर-भीतर के सुख-दुःख के चिह्नों को भी छिपाने वाले राजा दिलीप के समस्त कार्य, पूर्वजन्म के संस्कारों के समान फल से ही जाने जाते थे ॥२०॥ संप्रति सामाधुपायान्विनैवात्मरक्षादिकं कृतवानित्याह
जुगोपात्मानमत्रस्तो भेजे धर्ममनातुरः।
अगृध्नुराददे सोऽर्थमसक्तः सुखमन्वभूत् ॥२१॥ सञ्जीविनी-अत्रस्तोऽभीतः सन् । 'त्रस्तो भीरुभीरुकभीलुकाः' इत्यमरः । त्रासोपाधिमन्तरेणैव वर्गसिद्धेः प्रथमसाधनत्वादेवात्मानं शरीरं जुगोप रक्षितवान् । अनातरोऽरुग्ण एव धर्म सुकृतं भेजे। अजितवानित्यर्थः । अगृध्नुरगर्धनशील एवार्थमाददे स्वीकृतवान् । 'गृध्नुस्तु गर्धनः । लुब्धोऽभिलाषुकस्तृष्णक्समो लोलुपलोलुभौ इत्यमरः, 'सिगृधिषिक्षिपेः क्नुः' इति क्नुप्रत्ययः। असक्त आसक्तिरहित एव सुखमन्वभूत् ॥२१॥
अन्वयः-सः, अत्रस्तः, 'सन्' आत्मानं, जगोप, अनातुरः, 'सन्' धर्म, भेजे, अगृघ्नः, 'सन्' अर्थम्, आददे, असक्तः, 'सन्' सुखम्, अन्वभूत् ।
वाच्य०--तेनात्रस्तेन 'सता' आत्मा जुगुपे, अनातुरेण 'सता' धर्मो भेजे अगृनुना 'सता' अर्थः आददे, असक्तेन सुखमन्वभावि ।
___ व्याख्या-सा= राजा दिलीपः, न त्रस्तोऽत्रस्तः = अभीत: 'सन्' 'भयं विनंवत्रिवर्गसिद्धः, प्रथमसाधनत्वादेव', आत्मानं = शरीरं, जुगोप= ररक्ष =रक्षितवानित्यर्थः । न, आतुरः, अनातुरः= अरुग्णः, 'सन्' धर्म = सुकृतं = पुण्यमित्यर्थः, भेजे = सिषेवे, अजितवानित्यर्थः, न गृघ्नः अगृनुः = अलुब्धः, 'सन्' अर्थ =