________________
२२
रघुवंश महाकाव्ये
नीतिपूर्वकमेव दिलीपस्य
चापे, आतता = आरोपिता, मौर्वी = ज्या च । शौर्यमभूदित्यर्थः ।
समा० - परिच्छाद्यते अनेन इति परिच्छदः । अर्थस्य साधनम् अर्थसाधनम् । न कुण्ठिता अकुण्ठिता ।
अभि० - राज्ञो दिलीपस्य सैन्यं तु छत्रचामरादिवत् शोभार्थमेव, किन्तु नीतिशास्त्रानुसारिणी बुद्धिः सज्यं धनुश्चेति द्वयमेव, सम्पूर्ण प्रयोजन साधकमभूत् । हिन्दी - -राजा दिलीप की विशाल सेना तो केवल उपकरण 'शोभा' मात्र थी, और उसके प्रयोजन इन दो बातों से ही सिद्ध हो जाते थे, एक तो सम्पूर्ण शास्त्रावगाहिनी बुद्धि और दूसरी धनुष पर चढ़ी डोरी || १९|| राज्यमूलं मन्त्रसंरक्षणं तस्यासीदित्याह - तस्य संवृतमन्त्रस्य गूढाकारेङ्गितस्य च ।
फलानुमेयाः प्रारम्भाः संस्काराः प्राक्तना इव ॥ २० ॥
सञ्जीविनी —- संवृतमन्त्रस्य गुप्त विचारस्य । 'वेदभेदे गुप्तवादे मन्त्रः' इत्यमरः । शोकहर्षादिसूत्रको भ्रुकुटीमुखरागादिराकारः इङ्गितं चेष्टितं हृदयगतविकारो वा । 'इङ्गितं हृद्गतो भावो बहिराकार आकृति:' इति सज्जनः । गूढे आकारेङ्गिते यस्य | स्वभावचापलाद् भ्रमपरम्परया मुखरागादिलिङ्गर्वा तृतीयगामिमन्त्रस्य तस्य । प्रारभ्यन्त इति प्रारम्भाः सामाद्युपायप्रयोगाः । प्रागित्यव्ययेन पूर्वजन्मोच्यते । तत्र भवाः प्राक्तनाः । ' सायंचिरंप्राह्णेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट् च' इत्यनेन टयुत्प्रत्ययः । संस्काराः पूर्व कर्म वासना इव । फलेन कार्येणानुमेया अनुमातुं योग्या आसन् । अत्र याज्ञवल्क्यः --' -- मन्त्रमूलं यतो राज्यमतो मन्त्रं सुरक्षितम् । कुर्याद्यथा तन्न विदुः कर्मणामा फलोदयात् ॥' इति ॥ २० ॥
अन्वयः -- संवृतमन्त्रस्य, गूढाकारेङ्गितस्य च तस्य प्रारम्भाः, प्राक्तनाः, संस्कारा, इव, फलानुमेयाः, 'आसन' इति शेषः ।
वाच्य० - तस्य प्रारम्भः प्राक्तनैः संस्कारः, इव फलानुमेयः अभावि ।
=
व्याख्या -- संवृतः = गुप्तः, मन्त्रः = विचारो यस्य स तस्य संवृतमन्त्रस्य, आकारः= आकृति:= हर्षशोकादिसूत्रको भृकुटिमुख रागादिरित्यर्थः, इङ्गितं = चेष्टितञ्चेति, आकारेङ्गिते, गूढे = अप्रकाशिते, आकारेङ्गिते यस्य स तस्य गूढाकारेङ्गितस्य च तस्य = दिलीपस्य, प्रारभ्यन्त इति प्रारम्भाः = सामाद्युपायप्रयोगाः,