________________
प्रयमः सर्गः
व्याल्या-सः= राजा दिलीपः, प्रजानां= लोकानां, भूत्यं, इदं भूत्यर्थ = कल्याणार्थ, ताभ्यः प्रजाभ्यः, बलि = षष्ठांशरूपं करम्, अग्रहीत् = जग्राह हि = यतः, रविः= सूर्यः, सहस्रं गुणा यस्मिन् कर्मणि तत् सहस्रगुणं = सहस्रगुणाधिकम्, उत्स्रष्टुं = दातुं, रसं = जलम्, आदत्ते = गृह्णाति ।
समा०--भूत्यै इदम् भूत्यर्थम्, सहस्रम् मुणाः यस्मिन्कर्मणि तत् सहस्रगुणम् ।
अभि०-यथा सूर्यः पृथिवीतो जलं गृहीत्वा सहस्रगुणाधिकं वर्षति तथैव राजा दिलीपः प्रजाकल्याणार्थमेव करं गृहीत्वा सहस्रगुणं कृत्वा ददी, न तु स्वकीयभोगविलासार्थ, जग्राहेति भावः । __हिन्वी०-जैसे सूर्य अपनी किरणों के द्वारा पृथिवी से जल सोखकर हजारगुना वर्षा करता है, वैसे ही राजा दिलीप भी अपनी प्रजा से जो आय का छठा भाग कर रूप में लेते थे उसे प्रजा के कल्याण में ही लगा देते थे ॥१८॥ .
सेना परिच्छदस्तस्य द्वयमेवार्थसाधनम् ।
शास्रष्वकुण्ठिता बुद्धिमौर्वी धनुषि चातता ॥ १६ ॥ सञ्जीविनी--तस्य राज्ञः सेना चतुरङ्गबलम् । परिच्छाद्यतेऽनेनेति परिच्छद उपकरणं बभूव । छत्रचामरादितुल्यमभूदित्यर्थः । 'सि संज्ञायां घः प्रायेण' इति घप्रत्ययः। 'छादेर्धेऽद्वयुपसर्गस्य' इत्युपधा ह्रस्वः । अर्थस्य प्रयोजनस्य तु साधनं द्वयमेव । शास्त्रेष्वकुण्ठिताऽव्याहता बुद्धिः । 'व्यापता' इत्यपि पाठः । धनुष्यातताअरोपिता मौर्वी ज्या च । 'मौर्वी ज्या शिजिनी गुणः' इत्यमरः । नीतिपुरःसरमेव तस्य शौर्यमभूदित्यर्थः ॥१९॥
अन्वयः--तस्य, सेना, परिच्छदः, 'बभूव' अर्थसाधनं, द्वयमेव, शास्त्रेषु, अकुण्ठिता, बुद्धिः, धनषि, मातता, मौर्वी, च ।
वाच्य०--तस्य सेनया परिच्छदेनाभावि, शास्त्रेष्वकुण्ठितया बुद्धया, धनुषि, आततया मौा चेति द्वयेनैवार्थसाधनेनामावि ।
व्याख्या-तस्य = राशो दिलीपस्य, सेना= सैन्यं = चतुरङ्गबलमित्यर्थः, परिच्छाद्यते अनेनेति परिच्छदः= उपकरणं, 'बभूव' छत्रचामरादितुल्यमित्यर्थः, अर्थस्य =प्रयोजनस्य,साधनं = निर्वतकं, द्वयम् = द्वितयम्, एव शास्त्रेषु = जागमेषु = नीतिशास्त्रेष्वित्यर्थः, अकुण्ठिता= अव्याहता, बुद्धिः = मतिः, धनुषि =