SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ रघुवंशमहाकाव्ये वाच्य०--नियन्तुस्तस्य नेमिवृत्तिभिः, प्रजाभिः आमनोः क्षुण्णात् वत्मनः परं रेखामात्रमपि न व्यतीये । ध्याल्या-नियन्तुः= नियामकस्य, शिक्षकस्येत्यर्थः, तस्य = दिलीपस्य, नेमीनां= चक्रधाराणां= चक्ररेखाणामित्यर्थः, वृत्तिः इव वृत्तिः = वर्तन, व्यापारः यासां=ताः, नेमिवृत्तयः, इव = यथा, प्रजाः= लोकाः, आ मनोः= मनमारभ्य, क्षुण्णात् = अभ्यस्तात्, नैमिपक्षे प्रहतात्, वर्त्मनः= आचारपद्धतः मार्गाच्च, परम् = अधिक, रेखामात्र रेखाप्रमाणम्, ईषदपीत्यर्थः, न = नहि, व्यतीयः= अतिक्रान्तवत्यः। समा०--नेमीनाम् वृत्तिः इव वृत्तिः वासाम् ताः नेमिवृत्तयः, मनुम् आरभ्य आमनोः, रेखा प्रमाणमस्येति रेखामात्रम् । अभि०-यथा कुशलसारथिप्रेरिता रथनमयः पूर्णक्षण्ण मार्ग किंचिदपि न त्यजन्ति, तथैव कुशलशासकेन दिलीपेन रक्षिताः प्रजाः,आमनोः,अभ्यस्तामाचारपद्धतिमपि न परितत्यजुः । हिन्दी-जिस प्रकार चतुर सारथी से चलाए गए रथ के पहिये जरा भी लीक से इधर-उधर नहीं हो पाते, वैसे ही सुयोग्य शासक राजा दिलीप से शासित प्रजा किंचिन्मात्र भी भगवान् मनु के नियमों का उल्लंघन नहीं करती थी। प्रजानामेव भूत्यर्थं स ताभ्यो बलिमग्रहीत् । सहस्रगुणमुत्स्रष्टुमादत्ते हि रसं रविः ॥१८॥ सञ्जीविनी-स राजा प्रजानां भूत्या अर्थाय भूत्यर्थ वृद्धधर्थमेव । 'अर्थेन सह नित्यसमासः सर्वलिङ्गता च वक्तव्या' । ग्रहणक्रियाविशेषणं चतत्। ताभ्यः प्रजाभ्यो बलि करम्, 'भागधेयः करो बलिः' इत्यमरः । तथाहि । रविः सहस्रं गुणा यस्मिन्कर्मणि तद्यथा तथा सहस्रगुणं सहस्रघोस्रष्टुं दातुम् । उत्सर्जन क्रियाविशेषणं चतत् । रसमम्ब्वादत्ते गृह्णाति । 'रसो गन्धे रसे स्वादे तिक्तादौ विषरोगयोः । शृंगारादौ द्रवे वीर्ये देहधात्वम्बुपारदे ॥' इति विश्वः ॥१८॥ अन्वयः--सः, प्रजानां, भूत्यर्थम्, एव, ताभ्यः, बलिम्, अग्रहीत्, हि, रविः, सहस्रगुणम्, उत्स्रष्टुं, रसम्, आदत्त । वाच्य०--तेन प्रजानां भूत्यर्थमेव वलिरग्राहि, हि सहस्रगुणमुत्स्रष्टुं रविणा, रस आदीयते।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy