________________
२६
रघुवंश महाकाव्ये
,
व्याख्या-- विषयः = शब्दादिभिः, न आकृष्टः अनाकृष्टस्तस्य, अनाकृष्टस्य, विद्यानां = वेदवेदांगादीनां पारम् = अन्तं दृष्टवान् = ज्ञातवान् इति पारदृश्वा, तस्य पारदृश्वनः, धर्मे = सुकृते, रतिः = अनुरागो यस्य स तस्य धर्मरतेः तस्य = राज्ञो दिलीपस्य, जरसा = जरया, वृद्धावस्थयेत्यर्थः, विना = अन्तरेण, वृद्धस्य भावः कर्म वा, वृद्धत्वं = वार्धकम् आसीत् ।
समा०--न आकृष्टः अनाकृष्टः तस्य अनाकृष्टस्य । पारम् दृष्टवान् इति पारदृश्वा तस्य पारदृश्वनः । धर्मे रतिः यस्य सः धर्मरतिः तस्य धर्मरतेः । वृद्धस्य भावः कर्म वा वृद्धत्वम् ।
अभि० -यौवनसम्पन्नस्यापि विषयवैराग्यादिज्ञानगुणसम्पत्तिशालिनो धर्मरतेः राज्ञो दिलीपस्य वृद्धावस्था मन्तरेणापि ज्ञानतो वृद्धत्वमासीत् ।
हिन्दी - सांसारिक भोगों से दूर रहनेवाले वेदवेदांगादि के पारंगत, धर्मानुरागी राजा दिलीप जवानी में ही इतने ज्ञानसम्पन्न हो गए कि वृद्धावस्था के विना भी उनमें बुढ़ापा जान पड़ने लगा, अर्थात् ज्ञान से बड़े-बूढ़े जान पड़ते थे || ३२ ॥
प्रजानां विनयाधानाद्रक्षणाद्भरणादपि ।
स पिता पितरस्तासां केवलं जन्महेतवः ॥ २४ ॥
सञ्जीविनी -- प्रजायन्त इति प्रजा जनाः 'उपसर्गे च संज्ञायाम्' इति उप्रत्ययः । 'प्रजा स्यात्संतती जने' इत्यमरः । तासां विनयस्य शिक्षाया आधानात्करणात् सन्मार्गप्रवर्तनादिति यावत् । रक्षणाद्भयहेतुभ्यस्त्राणात् आपन्निवारणादिति यावत् । भरणादन्नपानादिभिः पोषणादपि । अपिः समुच्चये । स राजा पिताभूत् । तासां पितरस्तु जन्महेतवो जन्ममात्रकर्तारः । केवलमुत्पादका एवाभूवन् । जननमात्र एव पितॄणां व्यापारः । सदा शिक्षारक्षणादिकं तु स एव करोतीति तस्मिन्पितृत्वव्यपदेशः । आहुश्च -- स पिता यस्तु पोषकः' इति ॥२४॥
अन्वयः --- प्रजानां विनयाधानात् रक्षणात्, भरणात्, अपि सः पिता "अभूत्," तासां पितर: 'तु' केवलं जन्महेतवः " अभूवन्" ।
रक्षणादपि तेन पित्राऽभूयत,
वाच्य० -- प्रजानां विनायाधानात् भरणात् तासां पितृभिः, जन्महेतुभिरभूयत ।