________________
अष्टमः सर्गः
१८६
अन्त्रयः- - सः सहजाम् अपि धीरताम् अपहाय बाष्पगद्गदं विललाप अभितप्तम् श्रयः अपि मार्दवं भजते शरीरिषु का एव कथा |
व्याख्या–सः=अजः सह जन्मना जाता इति सहजा ता सहजां = स्वाभाविकीम् अपि धियं रातीति धीरः वियमःरयतीति वा धीरः तस्य भावः धीरता तां धीरताम्=धैर्यम् अपहाय=परित्यज्य वातीति बाष्पम् बाष्पेण - प्रश्रुणा गद्गदमिति बाष्पगद्गदम् कण्ठगताश्रुजलेन विशीर्णाक्षरं यथा स्यात्तथा विललाप - विलापं कृतवान् । ननु धैर्यंवतः कस्मात् शोक इति चेत् तत्राह - अभितः तप्तम्, अभितप्तम्=अग्निना संतप्तम् अयः = लोहम् - अचेतनमपीत्यर्थः मृदोर्भावः मार्दवम्=मृदुताम्= श्रवैरत्वञ्च भजते=प्राप्नोति, शरीरमस्ति येषां ते शरीरिणस्तेषु शरीरिषु =देहिषु = अभिसंतप्तेषु इत्यर्थः विषये का एव कथा = वार्ता । अचेतनमपि यदा मृदु भवति चेतनस्य शरीरधारिणः किं वक्तव्यमिति भावः ।
समासः - बाष्पेण गद्गदमिति बाष्पगद्गदम् । सह जाता इति सहजा तां सहजाम् । अभितः तप्तमिति श्रभितप्तम् ।
हिन्दी - वह अज अपनी सहज धीरता को छोड़कर प्रसुनों से गला भर जाने से गद्गद अस्पष्टाक्षर से विलाप करने लगा । ठीक ही है अग्नि से तपा हुआ लोहा, चेतन भी पिघल जाता है तब शरीरधारियों की तो बात ही क्या ||४३||
कुसुमान्यपि गात्रसंगमात्प्रभवन्त्यायुरपोहितुं यदि ।
न भविष्यति हन्त साधनं किमिवान्यत्प्रहरिष्यतो विधेः || ४४||
संजी० - कुसुमानीति । कुसुमानि पुष्पाण्यपि । 'अपि' शब्दो नितान्तमार्दवद्योतनार्थः । गात्रसंगमाद्देहसंसर्गादायुरपोहितुमपहर्तुं प्रभवन्ति यदि । हन्त विषादे । 'हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः' इत्यमरः । प्रहरिष्यतो हन्तुमिच्छतो विधेर्दैवस्यान्यत् कुसुमातिरिक्तं किमिव वस्तु । 'इव' शब्दो वाक्यालंकारे । कीदृशमित्यर्थः । साधनं प्रहरणं न भविष्यति न भवेत् ? सर्वमपि साधनं भविष्यत्येवेत्यर्थः ॥४४॥
अन्वयः -- कुसुमानि अपि गात्रसंगमात् आयुः अपोहितुं प्रभवन्ति यदि हन्त प्रहरिष्यतः विधेः अन्यत् किमिव साधनं न भविष्यति ।