________________
१८८
रघुवंशमहाकाव्ये मलिनां मृगलेखां मृगरेखारूपं लाञ्छनं बिभ्रद्धारयंश्चद्रमा इव । समलक्ष्यतादृश्यत । इत्युपमा ॥४२॥
अन्वयः-पति: अंकनिषण्णया करणापायविभिन्नवर्णया तया उपसिप्राविलां मृगलेखां बिभ्रत् चन्द्रमा इव समलक्ष्यत ।
व्याख्या-पाति रक्षतीति पतिः स्वामी अजः अंके-उत्संगे निषण्णा स्थिता-शायितेत्यर्थः तथा अङ्कनिषण्णया करणानाम् इन्द्रियाणाम् अपायः विनाशः इति करणापायः इन्द्रियोपलक्षितचैतन्यस्य वा विनाशः तेन विभिन्नः-विरुद्ध इत्यर्थः, वर्णः कान्तिः यस्याः सा विभिन्नवर्णा=विच्छाया तया विभिन्नवर्णया तया-मृतया, इन्दुमत्या ओषति दहति अन्धकारमिति उपस्तस्मिन् उषसि प्रातःकाले आविलतीति प्राविला ताम् आविलाम् =मलिनां मृग्यते व्याधैरिति मृगः शशस्तस्य लेखा-रेखा इति मृगलेखां तां मृगलेखां-मृगलेखारूपं लाञ्छनं बिभ्रत्धारयन् चन्द्र-कपूरं सादृश्येन माति-तुलयतीति चन्द्रमाः। चन्द्रमाह्लादं मिमीते इति वा चन्द्रमाः । कालं मिमीते इति माः मासः, माश्चासौ चन्द्रश्चति चन्द्रमाः= चन्द्रः इव यथा समलक्ष्यत-अदृश्यत ।
समासः-अंके निषण्णा तया अंकनिषण्णया । करणानाम् अपायस्तेन विभिन्नः वर्णः यस्याः सा तया करणापायविभिन्नवर्णया। मृगस्य लेखा मृगलेखा तां मृगलेखाम् ।
हिन्दी-गोद में पड़ी हुई तथा प्राण निकल जाने से विकृत वर्ण वाली (कान्तिहीन ) उस इन्दुमती से राजा अज ऐसा दीख रहा थो, जैसे प्रातःकाल, मोद में मैली मृग को छाया को धारण किये चन्द्रमा हो ।। ४२ ॥
विललाप स बाष्पगद्गद सहजामप्यपहाय धीरताम् । अभितप्तमयोऽपि मार्दवं भजते कैव कथा शरीरिषु ॥४३॥
संजी०-विललापेति । सोऽजः सहजा स्वाभाविकीमपि धोरतां धैर्यमपहाय विप्रकीर्य बाष्पेण कण्ठगतेन गद्गदं विशीर्णाक्षरं यथा तथा ध्वनिमात्रानुकारिगद्गदशब्दर्विललाप परिदेवितवान् । 'विलापः परिदेवनम्' इत्यमरः । अभितप्तमग्निना संतप्तमयो लोहमचेतनमपि मार्दवं मृदुत्वमवैरत्वं च भजते प्राप्नोति । शरीरिषु देहिषु । अभिसंतप्लेष्विति शेषः । विषये कैव कथा वार्ता ? अनुक्तसिद्धमित्यर्थः ।।४३।।