________________
अष्टमः सर्गः
१८७.
संजी०-प्रतीति । अथ सत्त्वस्य चैतन्यस्य विप्लवाद्विनाशाद्धेतोः। 'द्रव्यासुव्यवसायेषु सत्त्वम्' इत्यमरः । प्रतियोजयितव्या तन्त्रीभिर्योजनीया । न तु योजिततन्त्रीत्यर्थः । या वल्लकी वीणा तस्याः समाऽवस्था दशा यस्यास्तामङ्गनां वनितां नितान्तवत्सलोऽतिप्रेमवान् सोऽजः परिगृह्य हस्ताभ्यां गृहीत्वोचितं परिचितमङ्कमुत्सङ्गं निनाय नीतवान् । वल्लकीपक्षे तु-सत्त्वं तन्त्रीणामवष्टम्भकः शलाकाविशेषः ॥४१॥
अन्वयः--अथ नितान्तवत्सलः सः सत्त्वविष्लवात् , प्रतियोजयितव्यवल्लकीसमवस्थाम् अङ्गनाम् परिगृह्य, उचितम् अङ्कम् निनाय ।
व्याख्या-अनन्तरम् वत्से-स्त्रीपुत्रादौ अभिलाषोऽस्यास्तीति वत्सलः, नितान्तं दृढं वत्सलः स्निग्य : इति नितान्तवत्सलः सः अजः सीदन्ति गुणादयोऽस्मिन्निति सत्त्वं, सत्त्वस्य-प्राणस्य वीणापक्षे सत्त्वस्य-तंत्र्यवष्टम्भकस्य विप्लवः विनाशः इति सत्त्वविप्लवस्तस्मात् सत्त्वविप्लवात् "हेतोः" प्रतियोजयितुं योग्या प्रतियोजयितव्या-तन्त्रीभिः वीणागुणैः योजनीया या वल्लते इति वल्लकी-वीणा, इति प्रतियोजयितव्यवल्लकी तस्याः समा-सदृशी अवस्था = दशा यस्याः सा तान् प्रतियोजयितव्यवल्लकीसमवस्था, प्रशस्तानि, अंगानि यस्याः सा ताम् अंगनाम्, स्वभार्यामित्यर्थः । परिगृह्य-हस्ताभ्यामुत्थाप्य, उचितम् अभ्यस्तम् अङ्कयतेऽनेनेति अङ्कस्तम्-उत्संगं-क्रोडं निनाय-नीतवान् ।
समास:- नितान्तं वत्सल इति नितान्तवत्सलः । सत्त्वस्य विप्लवः सत्त्वविप्लवस्तस्मात् सत्त्वविप्लवात् । प्रतियोजयितव्या वा वल्लकी, इति प्रतियोजयितव्यवल्लकी तस्याः समा अवस्था यस्याः सा तां प्रतियोजयितव्यवल्लकीसमवस्थाम् ।
हिन्दी---तब अत्यन्तप्रेमी अजने प्राणशुन्य ( मृत )पत्नी को उठाकर परिचित गोद में उसी प्रकार रख लिया जैसे कि वादक तार मिलाने के लिये वीणा को अपनी गोद में रखता है। वीणा के तार तथा इन्दुमती के प्राण निकलने से दोनों की दशा समान है ॥४॥
पतिरङ्कनिषण्णया तया करणापायविभिन्नवर्णया। समलक्ष्यत विभ्रदाविला मृगलेखामुषसीव चन्द्रमाः ॥४२॥
संजी-पतिरिति । पतिरङ्कनिषण्णयोत्सङ्गस्थितया करणानामिन्द्रियाणामपायेनापगमेन हेतुना विभिन्नवर्णया विच्छायया तया। उपसि प्रातःकाल प्राविला