________________
रघुवंश महाकाव्ये
व्याख्या - विललापेत्युक्तं तदेवाह कुसुमानि = पुष्पाणि अपिः अतीव मृदुत्वयोतनार्थः गात्रस्य - शरीरस्य संगमः - संसर्गः स्पर्श इत्यर्थः इति गात्रसंगमस्तस्मात् गात्रसंगमात् एति इति आयुः तत् प्रायुः जीवितकालम् ग्रपोहितुम्= अहम् विनाशयितुमित्यर्थः प्रभवन्ति = समर्थानि यदि - चेत् हन्त इति खेदे, प्रहरिष्यतीति प्रहरिष्यन् तस्य प्रहरिष्यतः = मारयिष्यतः विधीयतेऽनेन वा विधिस्तस्य विधेः = देवस्य ग्रन्यत् पुष्पातिरिक्तं किमिव = कीदृशं वस्तु साध्यतेऽनेनेति साधनं प्रहरणं न भविष्यति न भवेत्, अपि तु सर्वमेव साधनं भविष्यत्येवेति भावः ।
१६०
समासः — गात्रस्य संगमः गात्रसंगमस्तस्मात् गात्रसंगमात् ।
हिन्दी- - अज का विलाप इस प्रकार है - नितान्त कोमल फूल भी यदि शरीर का स्पर्श हो जाने से जीवन लेने में समर्थ हो सकते हैं तो खेद है कि मारने वाले देव का पुष्पातिरिक्त कौन सी वस्तु साधन नहीं हो सकती है । ग्रपितु सभी वस्तु प्राण लेने की साधन हो सकती है ॥ ४४ ॥
अथवा मृदु वस्तु हिंसितुं मृदुनैवारभते प्रजान्तकः । हिमसेक विपत्तिरत्र मे नलिनी पूर्वनिदर्शनं मता ||१५||
संजी० – प्रथवेति । अथवा पक्षान्तरे, प्रजान्तकः कालो मृत्युः मृदु कोमलं वस्तु मृदुनैव वस्तुना हिंसितुं हन्तुमारभत उपक्रमते । अत्रार्थे हिमसेकेन तुषारनिष्यन्देन विपत्तिमृत्युर्यस्याः सा तथा नलिनी पद्मिनी मे पूर्वं प्रथमं निदर्शनमुदाहरणं मता, द्वितीयं निदर्शनं पुष्पमृत्युरिन्दुमतीति भावः ॥४५॥
-
अन्वयः - - श्रथवा प्रजान्तकः मृदु वस्तु मृदुनैव हिंसितुम् आरभते अत्र हिमसेक विपत्तिः नलिनी मे पूर्वनिदर्शनं मता 'वर्तते' |
व्याख्या— अथवा = पक्षान्तरे अन्तं करोति = अन्तयतीति अन्तकः प्रजानां = जनानाम् अन्तकः=यमः इति प्रजान्तकः मृदु = कोमलं वस्तु = द्रव्यं मृदुना = कोमलेन एवं हिंसितुं हन्तुं मारयितुमित्यर्थः श्रारभते = उपक्रमते अत्र विषये हन्तीति हिमम्, हिमस्य = तुषारस्य सेकः = निष्यन्दः इति हिमसेक : हिमसेकेन विपत्तिः - मरणं - मृत्युर्यस्याः सा हिमसेक विपत्तिः नलानि सन्त्यत्रेति नलिनी पद्मिनी मे = मम नितरां दृश्यते इति निदर्शनं पूर्वं प्रथमं निदर्शनम् उदाहरणमिति पूर्वनिदर्शनं मता =
अभिमता । द्वितीयमुदाहरन्तु पुष्पमालास्पर्शेन नृता इन्दुमतीति भावः ।
,