________________
रघुवंश महाकाव्ये
इन्दुमती, राहु से ग्रस्त चन्द्रमा की चान्दनी की तरह नष्ट हो गई अर्थात् इन्दुमती माला को देखते ही शान्त हो गई || ३७॥
१८४
वपुषा करणोज्झितेन सा निपतन्ती पतिमप्यपातयत् ।
ननु तैलनिषेक बिन्दुना सह दीपार्चिरुपैति मेदिनीम् || ३ = ||
संजी० - वपुषेति । करणैरिन्द्रियैरुज्झितेन मुक्तेन । 'करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि' इत्यमरः । वपुषा निपतन्ती सेन्दुमती पतिमजमप्यपातयत् पातयति स्म । तथा हि-निषिच्यत इति निषेकः । तैलस्य निषेकस्तैलनिषेकः । क्षरत्तैलमित्यर्थः । तस्य बिन्दुना सह दीपार्चिदिपज्वाला मेदिनीं भुवमुपैति ननूपैत्येव । 'ननु' अत्रावधारणे । 'प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु' इत्यमरः । इन्दुमत्या दीपार्चिरूपमानम् । अजस्य तैलबिन्दुः । तत एव तस्या जीवितसमाप्तिस्तस्य जीवितशेषश्व सू च्यते ॥३८॥
अन्वयः - करणोज्झितेन वपुषा निपतन्ती सा पतिम् अपि श्रपातयत्, ननु तैलनिषेकविन्दुना सह दीपार्चिः मेदिनीम् उपैति ।
व्याख्या- क्रियते यैस्तानि करणानि तैः करणैः - इन्द्रियैः उज्झितं = त्यक्तमिति करणोज्झितं तेन करणोज्झितेन, वपति, उप्यते वा वपुस्तेन वपुषा = शरीरेण निपतन्ती सा इन्दुमती पतिम् = अजमपि, अपातयत् = पातयामास । दीप्यतेऽनेनेति दीपः दीपयतीति वा दीप:, अर्च्यते इति अर्चिः । दीपस्य = दीपकस्य अर्चिः = ज्वाला, इति दीपार्चिः, निषिच्यते इति निषेकः तिलेषु भवं तैलं, तैलस्य = तिलस्नेहस्य निषेकः = क्षरणमिति तैलनिषेकस्तस्य विन्दतीति बिन्दुः = विप्रुट् जलकरण इत्यर्थः तेन तैलनिषेकबिन्दुना सह - साकम् मेदमस्यामस्तीति मेदिनी तां मेदिनीम् = पृथिवीम् उपैति प्राप्नोति ननु = एव ।
,
समासः - करणैः उज्झितमिति करणोज्झितं तेन करणोज्झितेन । तैलस्य निषेकः, तैलनिषेकस्तस्य बिन्दुः तैलनिषेक बिन्दुस्तेन तैलनिषेकबिन्दुना । दीपस्य अर्चिरिति दीपार्चिः ।
हिन्दी - इन्द्रियों से छोड़े हुए शरीर से ( मरी हुई ) उस इन्दुमती ने अपने पति अज को भी गिरा दिया । ठीक ही है- गिरते हुए तेल की बृन्दों के