________________
अष्टमः सर्गः
१८३
तिरस्कार करके राजा अज की प्रिया इन्दुमती के बड़े- बड़े स्तनों के बीच में आकर गिरो ॥ ३६ ॥
क्षणमात्रसख सुजातयोः स्तनयोस्तामवलोक्य विह्वला । निमिमोल नरोत्तमप्रिया हुन चन्द्रा तमसेव कौमुदी ||३७||
संजी० - क्षणमिति । सुजातयोः सुजन्मनोः । सुन्दरयोरित्यर्थः । स्तनयोः क्षगमात्रं सखीं सखीमिव स्थिताम् । सुजातत्वसाधर्म्यात्स्रजः स्तनसखीत्वमिति भावः । तां स्रजमवलोक्येषद् दृष्ट्वा विह्वला परवशा नरोत्तमप्रियेन्दुमती । तमसा राहुणा । 'तमस्तु राहुः स्वर्भानुः' इत्यमरः, हृतचन्द्रा कौमुदी चन्द्रिकेव । निमिमील मुमोह,. ममारेत्यर्थः । ' निमीलो दीर्घनिद्रा च' इति हलायुधः, कौमुद्या निमीलनं प्रतिसंहारः ||३७||
अन्वयः -सुजातयोः स्तनयोः क्षणमात्रसखीं ताम् अवलोक्य, विला नरोत्तमप्रिया तमसा हृतचन्द्रा कौमुदी इव निमिमील ।
व्याख्या - सुष्ठु जातौ सुजातौ तयोः सुजातयोः = सुन्दरयोः स्ततः शब्दयतः यौवनोदयमिति स्तनौ स्तन्येते कामुकैरिति वा स्तनौ तयोः स्तनयोः कुचयोः क्षणमेव इति क्षणमात्रम् समानं ख्यायते जनैरिति सखी क्षरणमात्रं - क्षणमेव सखी = वयस्या तां क्षणमात्रसखीम् = सखीमिव स्थिताम् सुन्दरत्वसादृश्यात् दिव्यमालाया स्तनसखीत्वमित्यर्थः । तां - दिव्यमालाम् अवलोक्य = दृष्टवा विह्वलतीतिं विह्वला = विक्लवा - परवशा, नरेषु उत्तमः नरोत्तमस्तस्य नृपतेरजस्य प्रिया - दयिता, इन्दुमती तम्यतेऽनेनेति तमस्तेन तमसा = राहुणा हृतः = आच्छादितः चन्द्रः = इन्दुः यस्याः साहृतचन्द्रा, कौ = पृथिव्यां मोदत इति कुमुदः कुमुदस्येयं कौमुदी = चन्द्रिका इव = यथा निमिमील-मुमोह, मृता इत्यर्थः ।
समासः - सुष्ठु जातौ सुजातौ तयोः सुजातयोः । क्षरण एवेति क्षणमात्रं सखी, इति क्षणमात्रसखी तां क्षणमात्रसखीम् । नराणां नरेषु वा उत्तमः नरोत्तमः, नरोत्तमस्य प्रिया इति नरोत्तमप्रिया । हृतः चन्द्रः यस्याः सा हृतचन्द्रा ।
हिन्दी - सुन्दर स्तनों की क्षरणभर के लिये सखी हुई (प्रपने स्तनों पर पड़ी) उस माला को जरासी देखकर, व्याकुल ( बेहोश हो गई ) राजा की प्रियतमा