________________
अष्टमः सर्गः
१८५ साथ दीप को ज्वाला ( लौ ) भूमि में गिरती ही है। अर्थात् इन्दुमती के गिरते ही अज भी मूर्छित होकर जमीन में गिर गया ॥३८।।
उभयोरपि पाश्र्ववर्तिनां तुमुलेनातरवेण वेजिताः। विहगाः कमलाकरालयाः समदुःखा इव तत्र चक्रशुः ।।३।।
संजी०-उभयोरिति । उभयोर्दम्पत्योः पार्श्ववर्तिनां परिजनानां तुमुलेन संकुलेनातरवेण करुणस्वनेन वेजिता भीताः कमलाकरालयाः सरःस्थिता विहगा हंसादयोऽपि तत्रोपवने समदुःखा इव तत्पार्श्ववर्तिनां समानशोका इव चक्रुशुः क्रोशन्ति स्म ॥३९॥
अन्वयः-उभयोः पार्श्ववर्तिनां तुमुलेन आतंरवेण वेजिताः कमलाकरालयाः विहगाः अपि समदुःखा इव तत्र चुक्रुशुः ।
व्याख्या-उभयोः द्वयोः अजेन्दुमत्योः स्पृश्यते इति पार्श्वम् पावें अन्तिके वर्तन्ते इति पार्श्ववर्तिनस्तेषां पार्श्ववर्तिनाम्-परिजनानाम्, तुमुलं तेन तुमुलेन व्याकुलेन आर्तः करुणश्वासौ रवः स्वनः शब्द इति आर्तरवस्तेन आरिवेण वेजिताः कम्पिताः भीता इत्यर्थः, कम्यन्ते इति कमलानि कमलानां-पद्मानाम्, (आकीर्यन्ते धातवो अत्रासौ) आकरः-उत्पत्तिस्थानमिति कमलाकरः-सरः प्रालयः-गृह-वासस्थानं येषां ते कमलाकरालयाः विहायसि गच्छन्तीति विहगाः= हंसादयः पक्षिणः अपि, तत्र-उपवने समं समानं-तुल्यं दुःखं = शोकः येषां ते समदुःखाः इव-यथा चुक्रशुः- क्रोशन्ति स्म ।
समासः-पावें वर्तन्ते इति पाश्र्ववर्तिनस्तेषां पाश्ववर्तिनाम् । पाश्चिासौ रवः प्रातरवस्तेन आतरवेण । कमलानामाकरः कमलाकरः कमलाकरः आलयः येषां ते कमलाकरालयाः । समं दुःखं येषां ते समदु:खाः ।
हिन्दी-अज और इन्दुमती के पास में वर्तमान, सेवकों के व्याकुल ( घबराये ) करुणापूर्ण स्वर से डरे हुए, तालाबों में रहने वाले पक्षी भी, ऐसे चिल्लाने लगे, मानो वे भी उनके दुःख में दुःखी हों ॥३९।।
नृपतेयंजनादिभिस्तमो नुनु सा तु तथैव संस्थिता । प्रतिकारविधानमायुषः सति शेषे हि फलाय कल्पते ।।४०॥