________________
रघुवंशमहाकाव्ये समासः-रश्मीनां शतानि रश्मिशताने दश रश्मिशतानि यस्य दशरश्मिशतः, दशरश्मिशतः उपमा यस्याः सा दशरश्मिशतोपमा, दशरश्मिशतोपमा द्युतिः यस्य स तं दशरश्मिशतोपमद्युतिम् । दश कण्ठाः यस्य स दशकण्ठः, दशकण्ठस्य अरिः, दशकण्ठारिः, तस्य गुरुः तं दशकण्ठारिगुरुम् । दशशब्दः पूर्वः यस्य स दशपूर्वः, दश पूर्वो रथस्तं दशपूर्वरथम् ।
हिन्दी-दश सौ ( हजार ) किरण वाले सूर्य के समान कान्ती वाला, दशों दिशाओं में प्रसिद्ध, दश मुख वाले रावण के शत्रु राम का पिता, अज का पुत्र था, पण्डितों ने जिसे नाम से दशरथ जाना है ॥२९॥
ऋषिदेवगणस्वधाभुजां श्रुतयागप्रसवैः स पार्थिवः । अनृणत्वमुपेयिवान्बभौ परिधेर्मुक्त इवोष्णदीधितिः ॥३०॥
संजी०-ऋषीति । श्रुतयागप्रसवरध्ययनयज्ञसंतानः करणैः यथासंख्यमृषीणां देवगणानामिन्द्रादीनां स्वधाभुजां पितृणामनृणत्वमृणविमुक्तत्वम् उपेयिवान् प्राप्तवान् । 'एष वा अनृणो यः पुत्री यज्वा ब्रह्मचारी वा' इति श्रुतेः । स पार्थिवोऽजः परिधेः परिवेषात् । 'परिवेषस्तु परिधिः' इत्यमरः। मुक्तो निर्गतः। कर्मकर्ता । उष्णदीधितिः सूर्य इव । बभौ दिदीपे। इत्युपमा ॥३०॥
अन्वयः-श्रुतयागप्रसवैः ऋषिदेवगणस्वधाभुजाम् अनु णत्वम उपेयिवान् सः पार्थिवः परिधेः मुक्तः उष्णदीधितिः इव बभौ ।
व्याख्या-श्रूयते स्म श्रुत-शास्त्राध्ययनम् । इज्यतेऽनेनेति यागः = यज्ञः । प्रसवनं प्रसव: प्रसूतिः । श्रुतं यागः प्रसववेत्येषां इतरेतर द्वन्द्वः श्रुतायागप्रसवास्तैः श्रुतयागप्रसवैः अध्ययनयज्ञपुत्रः करणः, यथासंख्यम् ऋषन्तीति ऋषयः सत्यवचसः दीव्यन्तीति देवाः इन्द्रादयोऽमराः । स्वधाम् पितृहविः भुञ्जते, ये ते स्वधाभुजः= पितरः । ऋषयः देवगणाः स्वधाभुजश्च, एतेषां द्वन्द्वः ऋषिदेवगरणस्वधाभुजस्तेषां ऋषिदेवगणस्वधाभुजाम्, अर्यते इति ऋणं-देयं, न ऋणम् अनृणं तस्य भावः, अनृणत्वं ऋणरहितत्वम् उपेयिवान् प्राप्तवान् सः पूर्वोक्तः प्रसिद्धः पृथिव्याः ईश्वरः पार्थिवः भूपालः = अजः, परितः सर्वतः धीयते व्याप्यतेऽनेनेति परिधिः-परिवेषस्तस्मात् परिधेः मण्डलादित्यर्थः मुक्तः = निर्गतः, मण्डलरहित इत्यर्थः, दीव्यन्ते