________________
अष्टमः सर्गः अधिकानि रत्नानि श्रेष्ठवस्तूनि सूते जनयतीति बहुरत्नसूः अभूत्-जाता अपराभामिनी इन्दुमती च वीरयतीति वीरः यहा विशेषेण ईत, ईरयति कम्पयति शत्रूनिति वीरस्तं वीरं शूरं सूयते स्म इति सुतस्तं सुतं-पुत्रम् अजीजनत् प्रसूत । ___ समासः-अयं पौरुषं यस्य स तम्, अग्र्यपौरुषम् । बहूनि रत्नानि सूते इति बहुरत्नसूः ।
हिन्दी-पृथिवी और इन्दुमती ने महान् पराक्रमी तथा उत्कृष्ट भोगशक्ति वाले अज को पति रूप में पाकर पहली पृथिवी ने बहुत से रत्नों को पैदा किया और इन्दुमती ने शूरवीर पुत्र को पैदा किया ॥२८॥ किनामकोऽसावत आहदशरश्मिशतोपमद्यति यशसा दिक्षु दशस्वपि श्रुतम् । दशपूर्वरथं यमाख्यया दशकण्ठारिगुरुं विदुर्बुधाः ॥२६।।
संजी०-दशेति । दश रश्मिशतानि यस्य स दशरश्मिशतः सूर्यः स उपमा यस्याः सा दशरश्मिशतोपमा द्युतिर्यस्य तम् । यशसा करणेन दशस्वपि दिक्ष्वाशासु श्रुतं प्रसिद्धम् । दशकण्ठारे रावणारे रामस्य गुरुं पितरं यं सुतम् । पाख्यया नाम्ना दशपूर्वो 'दश'शब्दपूर्वो रथो रथशब्दस्तम् । दशरथमित्यर्थः। बुधा विद्वांसो विदुर्वदन्ति । 'विदो लटो वा' (पा. ३।४।८३ ) इति झर्जुसादेशः ॥ २९ ॥
अन्वयः-दशरश्मि रातोपमद्युतिम् यशसा, दशस्त्रपि, दिक्षु, श्रुतम, दशकण्ठारिगुरुं, यं, सुतम् आख्यया, दशपूर्वरथं, बुधाः विदुः ।
व्याख्या-रश्मीनां-किरणानां शतानि, रश्मिशतानि दरश्मिशतानि यस्य स दशरश्मिशतः - सूर्यः उपमाउपमानं यस्याः सा दशरश्मिशतोपमा, द्योततेऽनया सा द्यतिः, दशरश्मिशतोपमा द्युतिः कान्तिः यस्य स तं दशरश्मिशतोपमद्युतिम्, अश्नुते व्याप्नोतीति यशस्तेन यशसा कीर्त्या दशसु-सर्वासु इत्यर्थः अपि-दिशन्त्यव. काशमिति दिशः तासु दिक्षु आशासु श्रुतं-प्रसिद्धम्, दश कण्ठाः मूर्धानः यस्य स दशकण्ठः रावणः तस्य अरिः शत्र:, दशकण्ठारिः, दशकण्ठारे: रावणारेः = रामस्येत्यर्थः गुरुः पिता इति दशकण्ठारिगुरुस्तं दशकण्ठारिगुरुम्, यं-प्रसिद्धं सुतंपुत्रम् आख्यया = नाम्ना दश शब्दः पूर्वः यस्य दशपूर्वः, दशपूर्वः रथः तं दशपूर्वरथं - बुध्यन्ते इति बुधाः पण्डिताः विदुः जानन्ति ।