________________
१७४
रघुवंशमहाकाव्ये कर्तव्य इत्युपदिश्य, सन् चासो अथः सदर्थः, सदर्थ परमार्थ तत्त्वज्ञानं विदन्ति-जानन्तीति सदर्थवेदिनस्तैः सदर्थवेदिभिः तत्वज्ञः विद्वद्भिः शमितः निवारितः-दूरीकृतः आधिः-मनोव्यथा यस्य स शमिताधिः सः = अजः, जिनातीति ज्या, ज्यायामिति, अधिज्यम् -प्रारोपितमौर्वीकं कार्मुक-धनुः यस्य सः अधिज्यकार्मुकः सन् गच्छतीति जगत् तत् जगत् -संसारम्, न विद्यते प्रतिशासनं-द्वितीयस्य प्राज्ञा यस्मिन् तत् अप्रतिशासनम्-अन्याज्ञारहितम् स्वाज्ञाविधेयम् कृतवान्-चकार।
समासः--परस्मिन् अर्धे भवा परार्ध्या गतिः यस्य स तस्य परायंगतेः। संश्चासौ अर्थ. सदर्थस्तं विदन्तीति सदर्थवेदिनः तैः सदर्थवेदिभिः । शमितः आधिः यस्य सः, शमिताधिः। अधिज्यं कार्मुकं यस्य सः अधिज्यकार्मुकः । नास्ति प्रतिशासनं यस्मिन् तत् अप्रतिशासनम् तत् ।
हिन्दी--परमपद (मोक्ष) को प्राप्त करने वाले अपने पिता रघु का शोक नहीं करना चाहिये, यह उपदेश देकर तत्वज्ञानी विद्वानों के द्वारा अज की मनोव्यथा शान्त को गई, तब अज ने धनुष चढ़ाकर सारे जगत् पर एकछत्र राज्य किया । अर्थात् एकमात्र अज का शासन हो गया ।।२७।।
क्षितिरिन्दुमती च भामिनी पतिमासाद्य तमध्यपौरुषम् । प्रथमा बहुरत्नसूरभूदारा वोरमजोज नसुतम् ॥२८॥
संजी०-क्षितिरिति । क्षितिर्मही भामिनी कामिनीन्दुमती च । 'भामिनी कामिनी च' इति हलायुधः । अग्र्यपौरुषं महापराक्रममुत्कृष्टभोगक्ति च तमजं पतिमासाद्य प्राप्य । तत्र प्रथमा क्षितिः। बहूनि रत्नानि श्रेष्ठवस्तूनि सूत इति बहुरत्नसूरभूत् । 'रत्नं स्वजातिश्रेष्ठेऽपि' इत्यमरः । अपरेन्दुमती वीर सुतमजीजनजनयति स्म । जायतेो लुङि रूपम् । सहोक्तया सादृश्यमुच्यते ।। २८ ।।
अन्वयः - क्षितिः, भामिनी, इन्दुमती, च अय्यपौरुषं, तं, पतिम्, आसाद्य प्रथमाबहुरत्नसूः अभूत् अपरा वीरं सुतम् अजीजनत् ।
व्याख्या-क्षियतीति क्षितिः वसुन्धरा अवश्यं भामते इति भामिनी कामिनी इन्दुमती च अग्र्यं श्रेष्ठम्, उत्कृष्टञ्च पौरुषं-पराक्रमः भोगशक्तिश्च यस्य स तम् अग्रयपौरुषं तम्-अजं पति-भर्तारम् प्रासाद्य प्राप्य तत्र प्रथमा मेदिनी बहूनि