________________
अष्टमः सर्गः
१७७
दीप्यन्ते याः ता दीधितयः, उष्णाः घर्माः दीधितयः किरणाः यस्य सः उष्णदीधितिः-सूर्यः इव बभौ-शुशभे–दिदीपे ।
समासः-श्रुतञ्च यागश्च प्रसवश्वेति श्रुतयागप्रसवाः, तैः श्रुतयागप्रसवैः । ऋषयश्च देवगणाश्च स्वधाभुजश्चेति ऋषिदेवगणस्वधाभुजस्तेषाम् ऋषिदेवगणस्वषाभुजाम् । न ऋणं यस्य सः अनृणः, तस्य भावः अनृणत्वम् । उष्णाः दीधितयः यस्य स उष्णदीधितिः।
हिन्दी-इस प्रकार वेदादि शास्त्रों का अध्ययन करके ऋषियों के ऋण से और यज्ञ करके देवताओं के ऋण से तथा पुत्रोत्पन्न करके पितरों के ऋण से मुक्त हुआ वह राजा अज, मण्डल से छूटे हुए सूर्य के समान सुशोभित हुआ ॥३०॥
बलमार्तभयोपशान्तये विदुषां सत्कृतये बहु श्रुतम् । वसु तस्य विभोर्न केवलं गुणवत्तापि परप्रयोजना ॥३१॥
संजी०-बलमिति । तस्य विभोरजस्य केवलं वसु धनमेव परप्रयोजन परोपकारकं नाभूत् । किंतु गुणवत्तापि गुणवत्त्वमपि परप्रयोजना परेषामन्येषां प्रयोजनं यस्यां सा । विधेयांशत्वेन प्राधान्याद् गुणवत्ताया विशेषणं वस्वित्यत्र तूहनीयम् । तथा हि-बलं पौरुषमार्तानामापन्नानां भयस्योपशान्तये निषेधाय । न तु स्वार्थ परपीडनाय वा । बहु भूरि श्रुतं विद्या विदुषां सत्कृतये सत्काराय, न तूत्सेकाय बभूव । तस्य धनं परोपयोगीति किं वक्तव्यम् । बलश्रुतादयोऽपि गुणाः परोपयोगिन इत्यर्थः ॥३१॥
अन्वयः-तस्य विभोः केवलं वसु परप्रयोजनं न अभूत 'किन्तु' गुणवत्ता अपि परप्रयोजना, 'तथाहि' बलम् आर्तभयोपशान्तये, बहु श्रुतं विदुषां सस्कृतये ।
व्याख्या-विशिष्टं भवतीति विभुस्तस्य विभोः-प्रभोः, अजस्य, केवलम् वसतीति वसु, उष्यतेऽस्मिन् गुणैरिति वा वसु= धनमेव प्रकर्षण युज्यते इति प्रयोजनं परेषाम् अन्येषां प्रयोजनम् उपकारकमिति परप्रयोजनं न प्रभूत् नासीत् 'किन्तु' गुणाः सन्ति यस्मिन् स गुणवान् तस्य भावः गुणवत्ता-गुणवत्त्वमपि परेषाम् = अन्येषां प्रयोजनम्-उपकारः, यस्यां सा परप्रयोजना । अभूत् । 'तथाहि' बल्यतेऽने. नेति बलं सामथ्यं पौरुषमिति यावत् आर्तानां विपन्नाना-पीडितानां भयस्य भीतेः उपशान्तिः शमनं त्राणञ्चेति, प्रातंभयोपशन्तिस्तस्यै मार्तभयोपशान्तये, नतु स्वार्थ