________________
१७०
रघुवंशमहाकाव्ये जाग्रतो सावधानौ प्रमादशून्यावित्यर्थः उदयः अभ्युदयश्च अपवर्गः = मोक्षश्चेति उदयापवर्गों तयोः उदयापवर्गयोः प्रसितौ-तत्परौ आसक्तौ इत्यर्थः उभौ-द्वौ= अजरघू अपिः समुच्चये उभौ अवयवौ अस्याः सा उभयी ताम् उभयीम् द्विविधाम् अभ्युदयमोक्षरूपामित्यर्थः सिध्यति इति सिद्धिस्तां सिद्धिम् सफलताम् अवापतुः = प्रापतुः, अजेन अभ्युदयरूपा रघुणा च मोक्षरूपा सिद्धिः प्राप्ता इति यावत् ।
समासः-प्रतिषिद्धः प्रसरः येषां ते तेषु प्रतिषिद्धप्रसरेषु। उदयश्च अपवगंश्चेति उदयापवर्गों तयोः उदयापवर्गयोः ।
हिन्दी-इस प्रकार रोक दी गई है स्वार्थ में प्रवृत्ति जिनकी ऐसे शत्रुओं तथा इन्द्रियों के विषय में जागरूक, अज उन्नति में और रघु मोक्ष में लगे दोनों ने दो प्रकार की सिद्धियां प्राप्त की। अर्थात् अज ने शत्रुओं का बढ़ना रोककर और रघु ने अपनी इन्द्रियों को वश में करके अपनी-अपनी सिद्धियों को प्राप्त कर लिया ॥२३॥
अथ काश्चिदजव्यपेक्षया गमयित्वा समदर्शनः समाः । तमसः परमापदव्ययं पुरुषं योगसमाधिना रघुः ॥२४।।
सजी०-अथेति । अथ रघुः समदर्शनः सर्वभूतेषु समदृष्टिः सन्नजव्यपेक्षया:जाकाङ्क्षानुरोधेन काश्चित्समाः कतिचिद्वर्षाणि । 'समा वर्ष समं तुल्यम्' इति विश्वः। गमयित्वा नीत्वा योगसमाधिनै क्यानुसंधानेन । 'संयोगो योग इत्युक्तो जीवात्मपरमात्मनोः' इति वसिष्ठः, अव्ययमविनाशिनं तमसः परमविद्यायाः परम् । मायातीतमित्यर्थः । पुरुषं परमात्मानन् । प्रापत् प्राप । सायुज्यं प्राप्त इत्यर्थः ॥२४॥
अन्वयः-अथ रघुः सनदर्शनः सन् अजव्यपेक्षया काश्चित् समाः गमयित्वा योगसमाधिना अव्ययं तमसः परं पुरुषम् आपत् ।
व्याख्या-अथ अनन्तरम् रघुः समंसमानं=तुल्यं दर्शनम् अवलोकनं-दृष्टिः यस्य स समदर्शनः सन् समदृष्टिः सन्नित्यर्थः । अजस्य स्वपुत्रस्य विशिष्टा या अपेक्षा = अनुरोधः तया अजव्यपेक्षया अजेच्छानुरोधेनेत्यर्थः काश्चित् समाः= कतिचित् वर्षाणि गमयित्वा-नीत्वा=व्यतीत्येत्यर्थः सम्यक् आधानं समाधिः । योगस्य समाधिः योगसमाधिस्तेन योगसमाधिना-ऐक्यानुसंधानेन = जीवात्मपरमात्मनोः संयोगरूपैक्यस्यानुसन्धानेनेत्यर्थः । न व्येति-नाशं न प्राप्नोतीति अव्ययस्तम्