SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ अष्टमः सर्गः १६ नूतनात्=अजात् इतरः = भिन्नः इति नवेतरः = रघुश्च प्रतति नैरन्तर्येण गच्छतीति आत्मा परमश्वासौ आत्मा परमात्मा तस्य दर्शनं - साक्षात्कारः इति परमात्मदर्शनम्, परमात्मदर्शनमभिव्याप्येति श्रापरमात्मदर्शनम् तस्मात् आपरमात्मदर्शनात् ब्रह्मसाक्षात्कारपर्यन्तमित्यर्थः, योजनं योगः, विधानं विधिः योगस्य = ध्यानस्य विधिः = अनुसंधानमिति योगविधिस्तस्मात् योगविधेः न विरराम = ऐक्यानुसन्धानरूपसमाधेः न निवृत्तः । समासः - फलस्य उदयः फलोदयः फलोदयमभिव्याप्य, श्राफलोदयं तस्मात् श्राफलोदयात् । स्थिरं कर्म यस्य स स्थिरकर्मा । योगस्य विधिरिति योगविधिस्तस्मात् योगविधेः । नवात् इतर: नवेतरः । परमश्चासौ आत्मा परमात्मा तस्य दर्शनं, परमात्मदर्शनम् अभिव्याप्येति प्रापरमात्मदर्शनं तस्मात् परमात्मदर्शनात् । स्थिरा धीः यस्य स स्थिरधीः । दृढ़ प्रतिज्ञा वाला नया राजा अज, जब तक फल की सिद्धि नहीं होती थी तब तक कर्म करने से विरक्त नहीं होना था, अर्थात् किसी काम को पूरा किए बिना नहीं छोड़ता था । और स्थिर चित्त वाले रघु ने भी परमात्मा का साक्षात्कार किए बिना योग की साधना को नहीं छोड़ा था ||२२|| इति शत्रुषु चेन्द्रियषु च प्रतिषिद्धप्रसरेषु जातौ । प्रसितावुद्यापवगयरुभयीं सिद्धिमुभाववापतुः ||२३|| संजी० – इतीति । इत्येवं प्रतिषिद्धः प्रसरः स्वार्थप्रवृत्तिर्येषां तेषु शत्रुषु चेन्द्रियेषु च जाग्रतावप्रमत्ताबुदयापवर्गयेोरभ्युदयमोक्षयोः प्रसितावासक्तौ । 'तत्परे, प्रसितासक्तौ' इत्यमरः, उभावजरघु उभर्थी द्विविधामभ्युदयमोक्षरूपाम् । 'उभादुदात्तो नित्यम्' (पा. ५।२।४४ ) इति तयप्प्रत्ययस्यायजादेशः । 'टिड्ढा-' (पा. ४।१।१५) इति ङीप् । सिद्धि फलमवापतुः । उभावुभे सिद्धी यथासंख्यमवापतुरित्यर्थः ॥२३॥ अन्वयः - इति प्रतिषिद्धप्रसरेषु शत्रुषु इन्द्रियेषु च जानती उदयापवर्गयोः प्रसितौ उभौ उभयम् सिद्धिम् श्रवापतुः । व्याख्या - इति एवं पूर्वोक्तप्रकारेण प्रतिषिद्ध: - निवारितः निरुद्ध इत्यर्थः प्रसरः = स्वार्थेषु प्रवृत्तिः येषां ते तेषु प्रतिषिद्धप्रसरेषु शातयन्तीति शत्रवस्तेषु शत्रुषु = अरिषु, इन्द्रस्य = आत्मन: लिंगानि इति इन्द्रियाणि तेषु इन्द्रियेषु = चक्षुरादिषु च
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy