________________
६८
रघुवंशमहाकाव्ये बन्धमुखान् षड् =षटसंख्यकान् गुण्यन्ते इति गुणास्तान् गुणान् संधिविग्रहादीन् तेषां-गुणानां फलं परिणाममिति तत्फलं समीक्ष्य = विचार्य उपायुक्त आयुक्त, लोष्टतीति लोष्टः, काचते-दीप्यते इति कानं, समा तुल्यः, तुल्यत्वेन भावित इत्यर्थः, लोष्टः मृत्पिण्डः काञ्चनं सुवर्णश्च यस्य स समलोष्टकाञ्चनः रघुः संन्यासिनृपः अपि गुणानां सत्वरजस्तमसा त्रयमिति गुणत्रयं प्रकृष्टा कृतिः कार्य यस्याः सा प्रकृतिः प्रकरोतीति प्रकृतिः-गुणानां साम्यावस्था तस्यां तिष्ठतीति तत् प्रकृतिस्थं-विकारशून्यं यथा स्यात्तथा अजयत् =अजैषीत् जितवानित्यर्थः ।।
समास:--परणस्य बन्धः परराबन्धः, स मुखं येषां ते तान् परणबन्धमुखान् । तेषां फलं तत्फलम् तत् । प्रकृतौ तिष्ठलगाके तत् प्रकृतिस्थम् । समः लोष्टः काञ्चनं च यस्य स समलोष्टकाश्चनः ।
हिन्दो-नृपति अज, संधि, विग्रह, यान, आसन, तथा आश्रय द्वैधीभाव इन छः गुणों का परिणाम सम्यक प्रकार से विचार कर इनका प्रयोग करता था और मिट्टी तथा सोने को समान समझने वाले रघु ने भी प्रकृति में रहने वाले ( सत्व, रज, तमः ) तीनों गुणों को जीत लिया ।।२१।।
न नवः प्रभुगफलोदयास्थिरकर्मा विरराम कर्मणः । न च योगविवेन येतरः स्थिरधारा परमात्मदर्शनात् ॥२२॥
संनो-ति । स्थिर कर्ता फलोदयकर्मकारी नवः प्रभुरज मा फलोदयात् फलसिद्धपर्यन्तं कर्मण प्रारम्भान्न न निवृत्तः । 'जुगुप्साविरामप्रमादार्थानामुपसंख्यानम्' (वा. १०७९ ) इत्यपादानात्पञ्चमी 'व्याङपरिभ्यो रमः' (पा. १।३।८३) इति परस्मैपदम् । स्थिरघोनिश्चलचित्तो नवेतरो रघुश्चापरमात्मदर्शनात् परमात्मसाक्षात्कारपर्यन्तं योगविधेरैक्यानुसंधानान्न विरराम ॥२२॥
अन्वयः-स्थिरकर्मा नवः प्रभुः आफलोदयात् कर्मणः न विरराम, स्थिरधी: नवेतरः च आपरमात्मदर्शनात् योगविधेः न विरराम ।
व्याख्या-तिष्ठतीति स्थिरं स्थिरं दृढं फलपर्यन्तमित्यर्थः कर्म=क्रिया यस्य स स्थिरकर्मा नवः-नूतनः प्रभुः-स्वामी, अजः फलस्य परिणामस्य उदयः सिद्धिरिति फलोदयः, फलोदयमभित्र्याप्य आफलोदयं तस्मात् आफलोदयात् कर्मणः प्रारम्भात् न-नहि विररामनिवृत्तः, स्थिरा-निश्चला धीः बुद्धिः यस्य स स्थिरधोः नवात्=