________________
भ्रष्टमः सर्गः
प्रारभ्यन्ते इत्यारम्भाः = कर्माणि तेषां फलानि = परिणामाः तानि द्विषदारम्भफलानि कृत्स्नं फलं भस्म, संपद्यते इति भस्मसात् = प्रकरोत् = संपूर्णतया भस्मीकृतवान् । इतरः=रघुः ज्ञानं प्रचुरमिति ज्ञानमयम् तेन ज्ञानमयेन = तत्त्वज्ञानप्रचुरेण वहति व्यमिति वह्निस्तेन वह्निना श्रग्निना स्वस्य कर्माणि स्वकर्माणि तेषां स्वकर्मणां = संसारबीजभूतानां दहने = भस्मसात्करणे ववृते = प्रवर्तते स्म जन्मान्तरे कृतानि स्वकर्माणि दग्धु ं प्रवृत्त इत्यर्थः ।
१६७
द्विषदारम्भफलानि ।
अचिरमीश्वर इति
समामः - - द्विषताम् श्रारम्भास्तेषां फलानि तानि स्वस्य कर्माणि तेषां स्वकर्मणाम्, ईशितुं शीलमस्येति ईश्वरः, अचिरेश्वरः ।
हिन्दी – नये राजा अज ने पृथिवी पर अपने सब शत्रुओं को कुचालों को नष्ट कर दिया, तथा रघु ने अपने तत्त्वज्ञान रूपी अग्नि से संसार में आने के कारण बीजभूत स्वकर्मों को भस्म कर दिया ॥ २० ॥
पणबन्धमुखान्गुणानजः षडुपायुक्त समीक्ष्य तत्फलम् । घुरप्यनयद् गुणत्रयं प्रकृतिस्थं समलोष्टका चनः ॥ २१ ॥
संजी० – पणबन्धेति । 'पणबन्धः संधिः' इति कौटिल्यः । अजः परणबन्धमुखान् । संध्यादीन्षड्गुणान् । 'संधिर्ना विग्रहो यानमासनं द्वैधमाश्रयः । षड्गुणाः " इत्यमरः । तत्फलं तेषां गुणानां फलं समीक्ष्यालोच्य । उपायुक्त । फलिष्यन्तमेव गुणं प्रायुङ्क्तेत्यर्थः । ‘प्रोपाभ्यां युजेरयज्ञपात्रेषु' ( पा. १ | ३|६४ ) इत्यात्मनेपदम् । समस्तुल्यतया भावितो लोष्टो मृत्पिण्डः काञ्चनं सुवर्णं च यस्य स समलोष्टकाञ्चनः निःस्पृह इत्यर्थः । 'लोष्टानि लेष्टवः पुंसि' इत्यमरः । रघुरपि गुणत्रयं सत्वादिकम् । 'गुणाः सत्त्वं रजस्तमः' इत्यमरः । प्रकुतौ साम्यावस्थायामेव तिष्ठतीति प्रकृतिस्थं पुनर्विकारशून्यं यथा तथाऽजयत् ॥२१॥
अन्वयः - अजः पणबन्धमुखान् षड् गुणान् तत्फलञ्च समीच्य उपायुक्त, समलोष्टकाञ्चनः रघुः अपि प्रकृतिस्थं गुणत्रयम् श्रजयत् ।
व्याख्या – प्रजः = राजा परणनं पणः, खन्यते इति मुखम् बन्धनं बन्धः परणस्य बन्धः पणबन्धः । पणबन्ध: - सन्धिः मुखम् - प्रादि येषान्ते पणबन्धमुखास्तान् परण