________________
अष्टमः सर्गः
अव्ययम् अविनोशिनं तमसः अविद्यायाः परं मायातीतम् पुरति अग्ने गच्छतीति पुरुषस्तं पुरुष परमात्मनम् आपत्-प्रापत् सायुज्यं प्राप इत्यर्थः ।
समासः समं दर्शनं यस्य स समदर्शनः । अजस्य व्यपेक्षा, तया । योगस्य समाधिः तेन योगसमाधिना।
हिन्दी-इसके अनन्तर, सब प्राणियों में समान दृष्टि रखने वाले रघु अपने पुत्र अज के अनुरोध से कुछ वर्ष बिताकर ( अर्थात् संसार में रहकर ) योग बल से, अविनाशो तथा अविद्या से परे ( मायातीत ) परमात्मा में मिल गया। मुक्त हो गया ॥२४॥
श्रुतदेहविसर्जनः पितुश्विरमश्रूणि विमुच्य राघवः। विदधे विधिमस्य नैष्ठिकं यतिभिः सार्धमनग्निमग्निचित् ।।२५।
संजी०-श्रुतेति । अग्निचिदग्निं चितवानाहितवान् । 'अग्नौ चे:' (पा. ३।२।९१ ) इति क्विष्प्रत्ययः । राघवोऽजः पितुः श्रुतदेहविसर्जन आकर्णितपितृतनुत्यागः संश्विरमणि बाष्पान्विमुच्य विसृज्यास्य पितुरनग्निम् । अग्निसंस्काररहित. मित्यर्थः । नैष्ठिकं निष्ठायामन्ते भवं विधिमाचारमन्त्येष्टि यतिभिः संन्यासिभिः साधं सह विदधे चक्रे । 'अनग्नि विधिम्' इत्यत्र शौनकः-'सर्वसङगनिवृत्तस्य ध्यानयोगरतस्य च । न तस्य दहनं कार्य नैव पिण्डोदकक्रिया। निदध्यात्प्रणवेनैव बिले भिक्षोः कलेवरम् । प्रोक्षणं खननं चैव सर्व तेनैव कारयेत् ॥ इति ॥२५॥
अन्वयः-अग्निचित् राघवः पितुः श्रुतदेहविसर्जनः सन् चिरम् अथ णि विमुच्य अस्य अनग्निम, नैष्ठिकं विधि, यतिभिः सार्ध विदधे ।
व्याख्या-अग्निम् अचैषीत्, अग्निचित्-आहिताग्निः अग्न्युपासकः रघोः अपत्यं पुमान् राघवः- अजः, दिह्यते-उपचीयते इति देहः शरीरम् विसृज्यते यत्तत् विसर्जनम्, श्रुतम् = आकर्णितं देहस्य-पितृशरीरस्य विसर्जनं-त्यागः येन स श्रुतदेह. विसर्जनः सन् चिरं-बहुकालम् अश्नुवते कण्ठं तानि अश्रूणि नेत्रजलानि विमुच्य= विसृज्य रुदित्वेत्यर्थः अस्य सायुज्यं गतस्य पितुः जनकस्य न विद्यते अग्निः यस्मिन् अनग्निः तम् अनग्निम् अग्निसंस्काररहितं निष्ठायाम् अन्ते भवं नैष्ठिक-अन्त्येष्टिविधि-संस्कारं -यतिभिः संन्यासिभिः साधं-साकम् विदधे-कृतवान् । धर्मशास्त्रा