________________
१६०
रघुवंशमहाकाव्ये ___ व्याख्या-आत्मनः जातः इति आत्मजः प्रीणातीति प्रियः आत्मजः-पुत्रःप्रियः-अभीष्टः यस्य स आत्मजप्रियः सुतवत्सल इत्यर्थः रघुः महाराजः, अश्रूणि= नेत्रजलानि मुखे-आनने नेत्रयोरित्यर्थः, यस्य स तस्य अश्रुमुखस्य तस्य-अजस्य तत्= अपरित्यागरूपम् यत् ईप्सितम्-अभिलषितं मनोरथमित्यर्थः कृतवान् अकरोत् तु = किन्तु सपणं सर्पः, सोहस्यास्तीति सर्पः भुजंगमः त्वम्-निर्मोकम् इव-यथा व्यपवर्जितां परित्यक्तां पुत्राय दत्तामित्यर्थः श्रियं-राज्यलक्ष्मी पुनः भूयः न प्रतिपेदे-न प्राप।
समासः-आत्मजः प्रियो यस्य स आत्मजप्रियः । अश्रूणि मुखे यस्य स तस्य, अश्रुमुखस्य ।
हिन्दी-अपने पुत्र को प्यार करनेवाले महाराज रघु ने आँसुत्रों से भरे मुखवाले अज की उस ( न छोड़ना ) इच्छा को कर दिया। अर्थात् वन में नहीं गये। किन्तु जैसे साँप अपनी केंचुल को छोड़कर पुनः ग्रहण नहीं करता, वैसे ही रघु ने त्यागी हुई राज्यलक्ष्मी को पुनः स्वीकार नहीं किया ॥१३॥
स किलाश्रममन्त्यमाश्रितो निवसन्नावसथे पुरावहिः । समुपास्यत पुत्रभोग्यया स्नुषयेवाविकृतेन्द्रियः श्रिया ॥१४||
संजी–स इति । स रघुः किलान्त्यमाश्रम प्रव्रज्यामाश्रितः पुरान्नगराबहिरावसथे स्थाने निवसन्नविकृतेन्द्रियः । जितेन्द्रियः सन्नित्यर्थः । अत एव स्नुषयेव वध्वेव पुत्रभोग्यया न स्वभोग्यया। श्रिया समुपास्यत शुश्रुषितः । जितेन्द्रियस्य तस्य स्नुषयेव श्रियापि पुष्पफलोदकाहरणादिशुश्रूषाव्यतिरेकेण न किचिदपेक्षितमासीदित्यर्थः । अत्र यद्यपि 'ब्राह्मणाः प्रव्रजन्ति' इति श्रुतेः । 'पात्मन्यग्नीन्समारोप्य ब्राह्मणः प्रव्रजेद्गृहात्' ( ६।३८ ) इति मनुस्मरणात् । 'मुखजानामयं धर्मो यद्विष्णोलिङ्गधारणम् । बाहुजातोरुजातानामयं धर्मो न विद्यतेः ।' इति निषेधाच्च ब्राह्मणस्यैव प्रवज्या न क्षत्रियादेरित्याहुः । तथापि 'यदहरेव विरजेत्तदहरेव प्रव्रजेत्' इत्यादिश्रुतेस्त्रैवर्णिकसाधारण्यात् । 'त्रयाणां वर्णानां वेदमधीत्य चत्वार आश्रमाः' इति सूत्रकारवचनात् । 'ब्राह्मणः क्षत्रियो वापि वैश्यो वा प्रव्रजेद्गृहात्' (मनु. १०।११७ ) इति स्मरणात् । 'मुखजानामयं धर्मो वैष्णवं लिङ्गधारणम् । बाहु