________________
अष्टमः सर्गः
जातोरुजातानां त्रिदण्डं न विधीयते ।' इति निषेधस्य त्रिदण्डविषयत्वदर्शनाच्च । कुत्रचिब्राह्मणपदस्योपलक्षरणमाचक्षाणाः केचित्वर्णिकाधिकार प्रतिपेदिरे । तथा सति ‘स किलाश्रममन्त्यमाश्रितः' ( ८।१४ ) इत्यत्रापि कविनाप्ययमेव पक्षो विवक्षित इति प्रतीमः । अन्यथा वानप्रस्थाश्रमतया व्याख्याते 'विदधे विधिमस्य नैष्ठिकं यतिभिः सार्धमनग्निमग्निचित्' ( ८।२५) इति वक्ष्यमाणेनानग्निसंस्कारेण विरोधः स्यात्; अग्निसंस्काररहितस्य वानप्रस्थस्यैवाभावात् इत्यलं प्रासङ्गिकेन ॥१४॥
अन्वयः-सः किल अन्त्यम् पाश्रमम् श्राश्रितः पुरात् बहिः श्रावसथे निवसन अविकृतेन्द्रियः सन् स्नुषया इव पुत्रभोग्यया श्रिया समुपास्यत ।
व्याख्या-सः रघुः किल प्रसिद्धम् अन्ते भवोऽन्त्यश्वासौ आश्रमः अन्त्याश्रमस्तम्, अन्त्याश्रमं संन्यासाश्रम् आश्रितः गतः पुरात्-नगरात् बहिः बाह्ये पावसन्ति प्रागत्य वसन्ति अस्मिन् तत् पावसथं तस्मिन् आवसथे पाश्रमे वसन्= निवसन् इन्द्रस्यात्मनः लिङ्गानि इन्द्रियाणि, न विकृतानि अविकृतानि, अविकृतानि विकारमप्राप्तानि-जितानीत्यर्थः इन्द्रियाणि हृषीकाणि चक्षुरादीनीत्यर्थः, यस्य सः अविकृतेन्द्रियः अत एव स्नौतीति स्नुषा तया स्नुषया-वध्वा इव-यथा भोक्तु योग्या भोग्या, पुत्रेण सुतेन भोग्या अभ्यवहार्या पालनीया चेति तया पुत्रभोग्यया न तु स्वभोग्ययेत्यर्थः श्रिया लक्ष्म्या समुपास्यत=सेवितः शुश्रूषितः । वशीकृतेन्द्रियस्य रघोः पुत्रवध्वा इव राजलक्ष्म्यापि पुष्पफलजलाहरणादिसेवातिरिक्तं न किमपि अपेक्षितमासीदित्यर्थः। ___समासः-पुत्रेण भोग्या पुत्रभोग्या तया पुत्रभोग्यया। अविकृतानि इन्द्रियाणि यस्य सः अविकृतेन्द्रियः।
हिन्दी-वह रघु संन्यास लेकर नगर के बाहरी स्थान में रहते हए, जितेन्द्रिय होकर, पुत्रवधू के समान पुत्र के भोगने योग्य राजलक्ष्मी से सेवित होते रहे। अर्थात् जिस पृथिवी पर अज राज करता था, वह जितेन्द्रिय रघु की पुष्पफल जल देकर पतोहू की तरह सेवा करती थी ॥१४॥
प्रशमस्थितपूर्वपार्थिवं कुलमभ्युद्यतनूतनेश्वरम् । नभसा निभृतेन्दुना तुलामुदितार्केण समारोह तत् ॥१५॥