________________
अष्टमः सर्गः संजी०-तमिति । अरण्यसमाश्रयोन्मुखं वनवासोद्युक्तं पितरं तं रघु सुतोऽजः । वेष्टनशोभिनोष्णीषमनोहरेण शिरसा पादयोः प्रणिपत्य । आत्मनोऽपरित्यागमयाचत। मां परित्यज्य न गन्तव्यमिति प्रार्थितवानित्यर्थः ॥१२॥
अन्वयः-अरण्यसमाश्रयोन्मुखं पितरं तम् सुतः वेष्टनशोभिना शिरसा पादयोः प्रणिपत्य आत्मनः अपरित्यागम्, अयाचत ।
व्याख्या-अर्यतेऽत्रेति अरण्यम् अरण्ये-वने सम्यग् प्राश्रयः वासस्तस्मिन् उन्मुखः उत्सुकः-उध क्तः, इति अरण्यसमाश्रयोन्मुखस्तम्, अरण्यसमाश्रयोन्मुखम् पातीति पिता तं पितरम्जनकं तं-रघुम्, सूयते स्मेति सुतः पुत्रः-अजः वेष्टयते यत् तत् वेष्टनम् . वेष्टनेन-उष्णीषेण वस्त्ररूपेणेत्यर्थः शोभते तच्छीलमिति वेष्टनशोभि, तेन वेष्टनशोभिना किरीटशोभिना वा शिरसा-मस्तकेन पादयोः=चरणयोः प्रणिपत्य-प्रकर्षण निपत्य-प्रणम्येत्यर्थः आत्मनः स्वस्य परितस्त्यागः परित्यागः न परित्यागः, अपरित्यागस्तमपरित्यागम्-अवियोगम् अयाचत-याचितवान् । मां त्यक्त्वा भवता वनं न गन्तव्यमिति प्रार्थितवानित्यर्थः । ____समासः--अरण्ये समाश्रयस्तत्र उन्मुखः इति अरण्यसमाश्रयोन्मुखः तम् अरण्यसमाश्रयोन्मुखम् । वेष्टनेन शोभते तच्छीलं तेन वेष्टनशोभिना। न परित्यागः अपरित्यागस्तम् अपरित्यागम् ।
हिन्दी-वनवास को उद्यत पिता रघु से अज ने पगड़ी से मनोहर शिर से चरणों में प्रणाम करके अपने को न छोड़ने की याचना की । अर्थात् मुझे छोड़कर आप वन में न जावें ऐसी प्रार्थना अज ने रघु से की ।।१२।।
रघुरश्रुमुखस्य तस्य तत्कृतवानीप्सितमात्मजप्रियः ।
न तु सर्प इव त्वचं पुनः प्रतिपेदे व्यवर्जितां श्रियम् ।।१३।। . संजी-रघुरिति । आत्मजप्रियः पुत्रवत्सलो रघुः । अश्रूणि मुखे यस्य तस्याश्रुमुखस्याजस्य तदपरित्यागरूपमीप्सितमभिलषितं कृतवान् । किंतु सर्पस्त्वचमिव व्यपवर्जितां त्यक्तां श्रियं पुनर्ने प्रतिपेदे न प्राप ॥१३॥
अन्वयः-आत्मजप्रियः रघुः श्रश्रमुखस्य तस्य तत् ईप्सितम् कृतवान्, किन्तु सर्पः त्वचम् इ व्यपवर्जितां श्रियं पुन: न प्रतिपेदे ।