________________
१५८
रघुवंशमहाकाव्ये
कुलधर्मश्चायमेवेत्याहगुणवत्सुतरोपितश्रियः परिणामे हि दिलीपवंशजाः। पदवीं तरुवल्कवाससां प्रयताः संयमिनां प्रपेदिरे ॥११॥
संजी०-गुणवदिति । दिलीपवंशजाः परिणामे वार्धके गुणवत्सुतेषु रोपितश्रियः स्थापितलक्ष्मीकाः प्रयताश्च सन्तः तरुवल्कान्येव वासांसि तेषां संयमिनां यतीनां पदवी प्रपेदिरे । यस्मात्तस्मादस्यापीदमुचितमित्यर्थः ॥११॥
अन्वयः--दिलीपवंशजाः परिणामे गुणवत्सुतरोपितश्रियः प्रयताः सन्तः तरुवल्कवाससां संयमिनां पदवी प्रपेदिरे।
व्याख्या-दिलीपस्य एतन्नामकमहाराजस्य वंशः अन्वयस्तस्मिन् जाताः= उत्पन्नाः, इति दिलीपवंशजाः। परिणमनं परिणामस्तस्मिन् परिणामे-वार्धके गुणाः दयादाक्षिण्यादयः शौर्यादयश्च सन्ति येषु ते गुणवन्तः, गुणवन्तश्च ते सुताःपुत्राः, गुणवत्सुतास्तेषु रोपिता स्थापिता श्रीः राज्यलक्ष्मीः यैस्ते गुणवत्सुतरोपितश्रियः । प्रयतन्ते इति प्रयताः पवित्राः सन्तः वलति इति वल्कयति वा वल्कं तरन्तीति तरवः तरूणां-वृक्षाणां वल्कानि = त्वचः, तान्येव वासांसि-वस्त्राणि येषां ते तेषां तरुवल्कवाससां संयमः=नियमः अस्ति येषान्तेषां संयमिनां-यतिब्रह्मचारिणां पद्यते अनया सा पदवी तां पदवीं-मार्ग प्रपेदिरे जग्मुः । अतः रघोरपि तन्मार्गानुसरणं सर्वथा उचितमेवेति भावः ।
समासः-दिलीपस्य वंशस्तस्मिन् जाताः दिलीपवंशजाः । गुणवन्तश्च ते सुताः गुणवत्सुतास्तेषु रोपिता श्रीः यस्ते गुणवत्सुतरोपितश्रियः । तरूणां वल्कानि एव वासांसि येषां ते तरुवल्कवाससस्तेषां तरुवल्कवाससाम् ।
हिन्दी-दिलीप के वंश में उत्पन्न हुए राजा बुढ़ौती में अपने गुणवान् पुत्रों को राजलक्ष्मी ( राजकाज ) सौंपकर और पवित्र होकर वृक्ष की छाल का वस्त्र पहनने वाले यतियों के ( संन्यासियों के ) मार्ग का अनुसरण करते थे। अर्थात् चन में चले जाते थे ॥११॥
तमरण्यसमाश्रयोन्मुखं शिरसा वेटनशोभिना सुतः । पितरं प्रणिपत्य पादयोरपरित्यागमयाचतात्मनः ।।१२।।