________________
१५४
रघुवंशमहाकाव्ये
अन्वग:- द्वयम् एव शुभंयुना द्वितयेन संगतं सत् अधिकं शुशुभे, ( किं केनेत्याह) पैतृकं ऋद्धं पदम् अजेन अस्य नवं यौवनं विनयेन संगतं सत शुशुभे ।
व्याख्या-द्वौ अवयवौ, अस्य तत् द्वयमेव सु-पूजितं भातीति शुभम् शुभमस्ति यस्य स शुभंयुः शुभान्वितः तेन शुभंयुना-शुभवता द्वितयेन = द्वयेन संगतं संयुतं सत् अधिकं-विशिष्टं शुशुभे-अशोभिष्ट । कि केनेत्याकांक्षायामाह पितुरागतं पैतृक = पितुः सकाशात् प्राप्तं ऋद्धं-समृद्धं पदं-राज्यम् अजेन-युवराजेन संगतम्, अस्यअजस्य नवं-नूतनं यौवनं-तारुण्यं विनयेन-प्रश्रयेण नम्रत्वेन च संगतं सत् शुशुभे । राज्ये स्थितोपि अजः कदाचित् किंचिदपि गर्वितो नाभूदित्यर्थः ।
हिन्दी-उस समय दो ही वस्तु, कल्याणवाले दोनों से मिलकर अधिक शोभा को प्राप्त हुई । एक तो अपने पिता से प्राप्त समृद्धिशाली राज्य अज से, और दूसरा अज का नव यौवन विनय से युक्त होकर ॥६॥
सदयं बुभुजे महाभुजः सहसोद्व गमियं व्रजेदिति । अचिरोपनतां स मेदिनी नवपाणिग्रहणां वधूमिव ।।७।
सञ्जी०-सदयमिति । महाभुजः सोऽजोऽचिरोपनतां नवोपगतां मेदिनी भुवम् । नवं पाणिग्रहणं विवाहो यस्यास्तां नवोढां वधूमिव । सहसा बलात्कारेण चेत् । 'सहो बलं सहा मार्गः' इत्यमरः । इयं मेदिनी वा। उद्वेगं भयं व्रजेदिति हेतोः । सदयं सकृपं बुभुजे भुक्तवान् । 'भुजोऽनवने' (पा. १।३।६६ ) इत्यात्मनेपदम् ॥७॥
अन्वयः-महाभुजः सः अचिरोपनतां मेदिनी नवपाणिग्रहणां वधूम् इव सहसा इयम् उद्वेगं व्रजेत् इति सदयं बुभुजे ।
व्याख्या-महान्तौ = दीघौ भुजौ-बाहू यस्य स महाभुजः सः अजः अचिरं= नवा उपनता-उपगता ताम् अचिरोपनताम् मेदमस्ति अस्यां सा मेदिनी मेद्यति वा मेदिनी तां मेदिनी = पृथिवीं पाणिः गृह्यतेऽस्मिन् कर्मणि तत् पाणिग्रहणं नवं-नूतनं सद्य इत्यर्थः पाणिग्रहणं--विवाहः यस्याः सा तां नवपाणिग्रहणां वहति उद्यते वा वधूस्तां वधूम्-नवोढाम् इव-यथा सहसा बलात्कारेण अविचारितेन इयं-मेदिनी वधूर्वा उद्वेगं भयं व्रजेत् = गच्छेत् इति = हेतोः दयया सहितं सदयं-सानुकम्प बुभुजे-भुक्तवान् ।