________________
अष्टमः सर्गः
समासः - महान्तौ भुजौ यस्य स महाभुजः । ग्रचिरमुपनता ताम् अचिरोपनताम् । नवं पाणेः ग्रहणं यस्याः सा तां नवपाणिग्रहणाम् ।
१५५
हिन्दी – महाबाहु अज ने नई प्राप्त हुई पृथिवी का भोग यह समझ कर दया - पूर्वक सरलता से करना आरम्भ किया कि कठोरता बलात्कार का व्यवहार करने से यह नई विवाहिता बधू के समान पृथिवी घबरा न जाय भयभीत न हो जाय ||७||
अहमेव मतो महीपतेरिति सर्वः प्रकृतिष्वचिन्तयत् । उदधेरिव निम्नगाशतेष्वभवन्नास्य विमानना कचित् ॥८॥
संजी० - अहमिति । प्रकृतिषु प्रजासु मध्ये सर्वोऽपि जन: । अथवा-प्रकृतिष्वित्यस्याहमित्यनेनान्वयः । व्यवधानं तु सह्यम् । सर्वोऽपि जनः प्रकृतिष्वहमेव महीपतेर्मतो महीपतिना मन्यमानः । ' मतिबुद्धिपूजार्थेभ्यश्च' ( पा. ३ |२| १८८ ) इति वर्तमाने क्तः, ‘क्तस्य च वर्तमाने' ( पा. २।३।६७ ) इति षष्ठी । इत्यचिन्तयदमन्यत । उदधेर्निम्नगाशतेष्विवास्य नृपस्य कर्तुः । 'कर्तृकर्मणोः कृति ' ( पा. २।३।६५ ) इति कर्तरि षष्ठो । क्वचिदपि जनविषये विमाननाऽवगरगना तिरस्कारो नाभवत्, यतो न कंचिदवमन्यतेऽतः सर्वोऽप्यहमेवास्य मत इत्यमन्यतेत्यर्थः ||८||
अन्वयः - सर्वः अपि जन: प्रकृतिषु अहम् एव महीपतेः मतः इति अचिन्त - यत्, उदधे: निम्नगाशतेषु इव श्रस्य क्वचित् विमानना न अभवत् ।
व्याख्या—सर्वः=अखिलोऽपि जन: लोकः प्रकुर्वन्तीति प्रकृतयस्तासु प्रकृतिसु = प्रजासु अहमेव = मल्लक्षणव्यक्तिरेव मह्यते = पूज्यते इति मही तां पातीति महीपतिस्तस्य महीपतेः=राज्ञोऽजस्य मतः = मान्यः प्रिय इति = इत्थमचिन्तयत् - व्यचारयत् उदकानि=जलानि धीयन्तेऽत्र स उदधिस्तस्य उदधेः समुद्रस्य निम्नं गच्छन्तीति निम्नगाः=नद्यस्तासां शतानि तेषु निम्नगाशतेषु इव यथा क्वचित् = कुत्रापि लोकविषये विमानना = तिरस्कारः न = नहि अभवत् = प्रभूत् । यस्मात् कोऽपि जन: न तिरस्क्रियते अतः सर्वोऽपि ग्रहमेव राज्ञो मतः इति श्रमन्यत ।
समासः - मह्याः पतिः महीपतिस्तस्य महीपतेः । निम्नं गच्छन्तीति निम्नगास्तासां शतानि तेषु निम्नगाशतेषु ।