________________
अष्टमः सर्गः
१५३ केवलामेकां श्रियं न प्रतिपेदे। किंतु सकलान्गुणान् शौर्यदाक्षिण्यादीनपि प्रतिपेदे । अतस्तद्गुणयोगात्तबुद्धिर्युक्तेत्यर्थः ।।५।।
अन्वयः-प्रजाः नवेश्वरं तम् निवृत्तयौवनं रघुम् एव अमन्यन्त हि सः तस्य केवलां श्रियं न प्रतिपेदे 'किन्तु' सकलान् गुणानपि प्रतिपेदे ।
व्याख्या-प्रकर्षेण जायन्ते इति प्रजाः जनाः, ईशितुं शीलमस्यासौ ईश्वरः नवः नूतनश्वासौ ईश्वरः स्वामी तं नवेश्वरं तम्-अजम् यूनो भावः यौवनं, निवृत्तं= प्रत्यागतं यौवनं तारुण्यं यस्य स निवृत्तयौवनस्तं निवृत्तयौवनं रघुम् -दिलीपसूनुमेव अमन्यन्त-मन्यन्ते स्म-अवगच्छन्ति स्मेत्यर्थः । तयोभदकं किंचिदपि नासीदिति भावः । कस्मात् । हि-यतः सः-अजः तस्य-रघोः केवलाम्-एकाम् श्रियं शोभां लक्ष्मीश्च न प्रतिपेदे-न प्राप, किन्तु सकलान् सम्पूर्णान् गुण्यन्ते इति गुणास्तान् -शौर्यादीन् दयादाक्षिण्यादींश्चापि प्रतिपेदे प्राप, अतः रघुगुणसम्बन्धात् रघुबुद्धिरिति युक्तमेव ।
समासः-निवृत्तं यौवनं यस्य स तं निवृत्तयौवनम् । नवश्वासौ ईश्वरस्तं नवेश्वरम् ।
हिन्दी-प्रजा ने नए राजा अज को, जिसकी जवानी लौट आई है ऐसा रघु ही समझा। अर्थात् पिता पुत्र की भिन्नता का कुछ कारण न था। ठीक ही है, इसीलिए कि उस अज ने महाराज रघु की राजलक्ष्मी को ही नहीं पाया किन्तु पिता के सारे गुण भी पाए थे ॥५॥
अधिकं शुशुभे शुभंयुना द्वितयेन द्वयमेव संगतम् । पदमृद्धमजेन पैतृकं विनयेनास्य नवं च यौवनम् ॥६।।
संजी०–अधिकमिति द्वयमेव शुभंयुना शुभवता । 'शुभंयुस्तु शुभान्वितः' इत्यमरः । 'अहंशुभमोर्युस' (पा. ५।२।१४० ) इति युस्प्रत्ययः। द्वितयेन संगतं युतं सदधिकं शुशुभे । कि केनेत्याह-पदमिति । पैतृकं पितुरागतम् । 'ऋतष्ठञ्' (पा. ४।३।७८ ) इति ठप्रत्ययः । ऋद्धं समृद्धं पदं राज्यमजेन, अस्याजस्य नवं यौवनं विनयेनेन्द्रियजयेन च । 'विजयो हीन्द्रियजयस्तद्युक्तः शास्त्रमर्हति' इति कामन्दकः । राज्यस्थोऽपि प्राकृतवन्न दृप्तोऽभूदित्यर्थः ॥६॥