________________
१४२ .
रघुवंशमहाकाव्ये जीवत्यनेन तत् जीवितं = जीवनं = प्राणा इत्यर्थः तु कृपया = दयया नतु असामर्थ्यनेति भावः, ननहि हृतम् इति वर्णयन्तीति वर्णाः अक्षराणि कादीनि = शोणितेन = रुधिरेण सहितानि तै: सशोणितैः रुधिरोक्षितैः शिली = शल्यं मुखे येषां ते शिलीमुखास्तेषामग्राणि तैः शिलीमुखाः शिलीमुखाग्ररूपलेखनसाधनैरित्यर्थः तेन= कुमारेण प्रयोजकका पृथिव्या ईश्वराः पार्थिवाः तेषां पार्थिवानां == राज्ञां केतुषु= ध्वजेषु पताकास्तम्भेषु इत्यर्थः निक्षेपिताः = निवेशिताः अजेन प्रेरितैरन्यैः स्वसनिकैः लिखिता इत्यर्थः ।
समास:--शोणितेन सहितानि तैः सशोणितः। शिली मुखे येषान्ते शिलीमुखास्तेषामग्राणि तैः शिलीमुखाः ।
हिन्दी-हे राजाओ! इस समय रघुपुत्र ने ( इसके पूर्व रघु ने ) तुम्हारा यश तो ले लिया और दया करके तुम्हारे प्राण नहीं लिये, यह वर्ण (अर्थात् वाक्य) खून में भीगे बाणों की नोक से सैनिकों ने शत्रु की ध्वजाओं पर लिख दिये । ६५।।
स चापकोटीनिहितकबाहुः शिरस्त्रनिष्कर्षणभिन्नमौलिः । ललाटबद्धश्रमवारिबिन्दुर्भीतां प्रियामेत्य वचो बभाषे ॥६६॥
संजी०–स इति। चापकोटयां निहित एकबाहुर्येन सः। शिरस्त्रस्य निष्कर्षणेनापनयनेन भिन्नमौलि: श्लथकेशबन्धः। 'चूडा किरीटं केशाश्च संयता मौलयस्त्रयः।' इत्यमरः । ललाटे बद्धाः श्रमवारिबिन्दवो यस्य स: सोऽजो भीतां प्रियामिन्दुमतीमेत्यासाद्य वचो वभाषे ।।६६॥
अन्वयः-चापकोटीनिहितकबाहुः शिरस्त्रनिष्कर्षणभिन्नमौलिः ललाटबद्धश्रमवारिबिन्दुः सः भीतां प्रियाम् एत्य वचः बभाषे ।
व्याख्या--कोट्यतेऽनया सा कोटी चापस्य धनुष: कोटी = आटनी अग्रभागः इत्यर्थः चापकोटी तस्यां निहितः = स्थापितः एकः बाहुः हस्तः येन स चापकोटीनिहितैकबाहुः शिरः त्रायते = पालयतीति शिरस्त्रम्-शिरस्त्रस्य-शीर्षकस्य निष्कर्षणम् = अपनयनं तेन भिन्ना = श्लथा मौलि:=चूडा यस्य स शिरस्त्रनिष्कर्षणभिन्नमौलिः, श्लथकेशः इत्यर्थः श्रमस्य धर्मस्य वारि=जलं तस्य बिन्दवः =पृषतः इति श्रमवारिबिन्दवः, ललाटेमाले मस्तके बद्धाः = जाताः