________________
सप्तमः सर्गः
१४१
व्याख्या- -शं खनतीति शंख:, शंखम् - अस्येति वा शाम्यति - अलक्ष्मी मिति वा शंखः, शंखस्य = जलजस्य स्वन: = रवः शब्द इत्यर्थः इति शंखस्वनस्तमभि जानन्तीति शंखस्वनाभिज्ञास्तेषां भावस्तत्ता तया शंखस्वनाभिज्ञतया निवृत्ता:= प्रत्यागता: पूर्वपलायिताः संप्रति प्रतिनिवृत्ता इति भावः स्वस्य = अजस्य योधा:= भटाः स्वयोधाः सन्नाः = लीनाः ( निद्रालीना इत्यर्थः ) शत्रवः = अरयः यस्य स तं सन्नशत्रुम् तम् == अजम् निमीलितानां = मुकुलितानां पंकात् जातानि पंकजानि तेषां पंकजानां = कमलानां मध्ये = गर्भे स्फुरन्तं = संचलन्तं प्रतिमीयतेऽनया सा प्रतिमा शशति : उत्प्लुत्य गच्छतीति शश:, शश: अंके यस्य स शशांकः । प्रतिमा प्रतिबिम्बरचासौ शशांक: - चन्द्रस्तं प्रतिमाशशांकम् इव = यथा ददृशुः = अवलोकयामासुः, दृष्टवन्त इत्यर्थः ।
-
समास :- शंखस्य स्वन: शंखस्वनस्तमभिजानन्तीति शंख स्वनाभिज्ञाः तेषां भावस्तत्ता तया शंखस्वनाभिज्ञतया । सन्नाः शत्रवो यस्य स तं सन्नशत्रुम् । स्वस्य योधाः स्वयोधाः । प्रतिमा चासौ शशांकस्तं प्रतिमाशशांकम् ।
हिन्दी -- शंख की ध्वनि को पहचानकर लौटे हुए अज के योधाओं ने सोये हुए शत्रुओं के बीच में अज को मुँदे हुए कमलों के बीच में चमकते हुए प्रतिबिम्ब'रूपी चन्द्रमा की तरह देखा || ६४ ||
सशोणितैस्तेन शिलीमुखाग्रेर्निक्षेपिताः केतुषु पार्थिवानाम् ।
1
यशो हृतं संप्रति राघवेण न जीवितं वः कृपयेति वर्णाः ॥ ६५ ॥ संजी० -- सशोणितैरिति । संप्रति राधवेण रघुपुत्रेण । पूर्वं रघुणेति भावः । हे राजानः ! वो युष्माकं यशो हृतं जीवितं तु कृपया न हृतम् । न त्वशक्त्येति भाव: । इत्येवंरूपा वर्णाः । एतदर्थप्रतिपादकं वाक्यमित्यर्थः । सशोणितैः शोणितदिग्धैः शिलीमुखाग्रैर्बाणाग्रैः साधनैस्तेनाजेन प्रयोजनकर्त्रा । पार्थिवानां राज्ञां केतुषु ध्वजस्तम्भेषु निक्षेपिता : प्रयोज्यैरन्यैर्निवेशिताः लेखिता इत्यर्थः । क्षिपतेर्ण्यन्तात्कर्मणि क्तः ॥ ६५॥
अन्वयः - सम्प्रति राघवेण 'हे राजानः' वः यशः हृतम् जीवितं तु कृपया न हृतम् इति वर्णाः सशोणितैः शिलीमुखाग्रैः तेन पार्थिवानां केतुषु निक्षेपिताः । व्याख्या - सम्प्रति इदानीं रघोरपत्यं पुमान् राघवस्तेन राघवेण = अजेन पूर्वं
रघुणा इदानीमजेनेत्यर्थः 'हे राजानः' वः = युष्माकं यशः
=
कीर्तिः हृतम् = जितम्