________________
सप्तमः सर्गः
१४३ श्रमवारिबिन्दवो यस्य स ललाटबद्धश्रमवारिबिन्दुः स: अज: भीतां भयमापन्नाम् उद्विग्नामित्यर्थः प्रियाम् = दयितामिन्दुमतीम्, एत्य =प्राप्य वच: वचनम् बभाषेउक्तवान् ।
- समास:--चापस्य कोटी चापकोटी, चापकोटयां निहितः एक: बाहुः येन स चापकोटीनिहितैकबाहुः। शिरस्त्रस्य निष्कर्षणं शिरस्त्रनिष्कर्षणं तेन भिन्ना मौलिः यस्य स शिरस्त्रनिष्कर्षणभिन्नमौलिः । श्रमस्य वारि श्रमवारि तस्य बिन्दवः श्रमवारिबिन्दवः, ललाटे बद्धाः श्रमवारिबिन्दवः यस्य स ललाटबद्धश्रमवारिबिन्दुः ।
हिन्दी:-धनुष की कोटी ( अग्रभाग ) में एक हात रखे हुए और टोप के हटा देने से बाल बिखरे हुए तथा जिसके मस्तक पर पसीने की बून्दे झलक रही हैं ऐसा अज डरी हुई इन्दुमती के पास आकर बोला ॥६६॥
इतः परानर्भकहायशस्त्रान्वैदर्भि ! पक्ष्यानुमता मयासि । एवंविधनाहवचेष्टितेन त्वं प्रार्थ्यसे हस्तगता ममैभिः ॥६७।।
संजी०–स इति । हे वैदर्भि इन्दुमति ! इत इदानीमर्भकहार्यशस्त्रान् बालकापहार्यायुधान् पराञ्शत्रून्पश्य । मयाऽनुमतासि । द्रष्टुमिति शेषः । एभिर्नपैरेवंविधन निद्रारूपेणाहवचेष्टितेन रणकर्मणा मम हस्तगता। हस्तगतवदुर्ग्रहेत्यर्थः । त्वं प्रार्थ्यसे । अपजिहीर्ण्यस इत्यर्थः । ‘एवंविधेन' इत्यत्र स्वहस्तनिर्देशन सोपहासमुवाचेति द्रष्टव्यम् ॥६७॥
अन्वयः-हे वैदभि इतः अर्भकहार्यशस्त्रान् परान् पश्य, मया अनुमतासि "द्रष्टुमिति शेषः" एभिः एवंविधेन आहवचेष्टितेन मम हस्तगता त्वं प्रार्थ्यसे ।
व्याख्या--विदर्भस्य गोत्रापत्यं स्त्री वैदर्भी तस्याः संबुद्धौ हे वैदर्भ =हे विदर्भराजपुत्रि ! इतः = इदानीम् अर्भकाः = बालकास्तैः हार्याणि = अपहार्याणि शस्त्राणि आयुधानि येषान्ते तान् अर्भकहार्यशस्त्रान् परान् = शत्रुन् "त्वं" पश्य अवलोकय मया=अजेन अनमतासि-द्रष्टुमन मोदिता, एभिः-राजभिः एवम् = इत्थं विधा=प्रकारो यस्य तत् तेन एवं विधेन = निद्रारूपेण आहवस्य = युद्धस्य चेष्टितं = कर्म तेन आहवचेष्टितेन मम = अजस्य हस्तयो: करयोःगता प्राप्ता हस्तगता त्वं प्रार्थ्यसे = अपजिहीर्ण्यसे = एवंविधरणकर्मणा बलान्नेतुमभिलष्यसे इत्यर्थः ।
समासः-अर्भकैः हार्याणि शस्त्राणि येषान्ते तान् अर्भकहार्यशस्त्रान् । एवं विधा यस्य तत् तेन एवंविधेन । आहवस्य चेष्टितं तेन आहवचेष्टितेन।