________________
सप्तमः सर्गः
१३५
चढ़ाना और चलाना तो सर्वथा अदृश्य ही था ) । ऐसा लगता था मानो एक बार कान तक खींची गई अज के धनुष की डोरी ही बाणों को पैदा कर रही थी ॥५७॥
शत्रुओं को नाश करने वाले
1
स रोषदष्टाधिक लोहितोष्ठेर्व्य क्तोर्ध्वरेखा भ्रुकुटीर्वद्भिः । तस्तार गां भल्लनिकृत्तकण्ठेहुंकारगर्भे द्विषतां शिरोभिः ॥ ५८ ॥ संजी० -- स इति । सोऽजः रोषेण दष्टा अत एवाधिकलोहिता ओष्ठा येषां तानि तै: । व्यक्ता ऊर्ध्वा रेखा यासां ता भ्रुकुटी भ्रूभंगान्वहद्भिः । भल्लनिकृत्ता वाणविशेषच्छिन्नाः कण्ठा येषां तैः । हुंकारगर्भैः सहुंकारै: हुंकुर्वद्भिरित्यर्थः । द्विषतां शिरोभिर्गा भूमि तस्तार छादयामास || ५८ ||
अन्वयः -- सः रोषदष्टाधिकलोहितोष्ठ : व्यक्तोर्ध्वरेखाः भ्रुकुटी: वहद्भिः भल्लनिकृत्तकण्ठैः हुंकारगर्भेः द्विषतां शिरोभिः गां तस्तार ।
=
व्याख्या - सः अजः रोषेण = क्रोधेन दष्टा: = दंशिताः अत एव अधिका: लोहिताः = रक्ताः ओष्ठा:=दन्तच्छदाः येषां तानि तैः रोषदष्टाधिकलोहितोष्ठः व्यक्ता = स्पष्टा ऊर्ध्वा = उपरि भागे स्थिता रेखा = लेखा पंक्तिर्यासां ताः व्यक्तोर्ध्वरेखाः = भ्रुवोः कुटयः भ्रुकुटयः ताः भ्रुकुटीः = भ्रूभंगान् वहद्भि: - धारर्याद्भः क्रोधेन मस्तकसंकोचं कुर्वद्भिरित्यर्थ: । भल्लै = बाणविशेषैः निकृत्ताः = छिन्नाः कण्ठाः = गलाः येषां तानि तैः भल्लनिकृत्तकण्ठैः, हुंकार : हुंकृति: गर्भे - अभ्यन्तरे येषां तानि तैः हुंकारगर्भैः हुंकुर्वद्भिरित्यर्थ: द्विषन्तीति द्विषन्तः तेषां द्विषतां = शत्रूणां शिरोभिः = मस्तकैः गां = पृथिवीं तस्तार = आच्छादयामास, 'हूंकार' - इति दीर्घपाठोऽपि क्वचित् ।
,
समास : - रोषेण दष्टा: रोषदष्टाः ( अत एव ) अधिका: लोहिताः ओष्ठाः येषान्तानि तैः रोषदष्टाधिकलोहितोष्ठैः । भल्लेन निकृत्ताः कण्ठाः येषां तानि तैः भल्लनिकृत्तकण्ठैः । हुंकार : गर्भे येषां तानि तैः हुंकारगर्भैः । व्यक्ता ऊर्ध्वा रेखा यासां ताः व्यक्तोर्ध्वरेखाः ताः व्यक्तोर्ध्व रेखाः ।
हिन्दी - --अज ने शत्रुओं के उन सिरों से पृथिवी को पाट दिया, जिनके ओठ क्रोध से काटने के कारण खूब लाल थे और जिनके मस्तक पर