________________
रघुवंश महाकाव्ये
समासः - एकश्चासौ वीरः एकवीरः । महांश्चासौ वराहः महावराहः । कल्पस्य क्षयस्तत्र उद्वृत्तमिति तत् कल्पक्षयोद्वृत्तम् । अर्णवस्य अम्भः अर्णवाम्भः तत् अर्णवाम्भः ।
१३४
हिन्दी- - रथ में बैठे तरकश बाँधे कवच धारण किये धनुष्धारी स्वाभिमानी अद्वितीय वीर उस अज ने अकेले ही शत्रुसेना को वैसे ही रोक दिया जैसे वराह रूपधारी विष्णु ने प्रलयकाल में बढ़े हुए समुद्र के जल को रोक दिया था, अर्थात् वराह भगवान समुद्रजल को चीरते हुए उसमें से पृथिवी को निकाल लाए थे ।। ५६॥ स दक्षिणं तृणमुखेन वामं व्यापारयन्हस्तमलक्ष्यताजौ ।
1
आकर्णकृष्टा सकृदस्य योद्धुमर्वीव बाणान्सुषुवे रिपुघ्नान् ॥५७॥ संजी०. ० स इति । सोऽजः । आजौ संग्रामे दक्षिणं हस्तं तृणमुखेन निषङ्गविवरेण वाममतिसुन्दरम् । 'वामं सव्ये प्रतीते च द्रविणे चातिसुन्दरे' इति विश्वः । व्यापारयन्नलक्ष्यत, शरसंधानादयस्तु दुर्लक्ष्या इत्यर्थः । सकृदाकर्णकृष्टा । योद्धुरस्याजस्य मौवीं ज्या रिपून्घ्नन्तीति रिपुघ्नाः । तान् । 'अमनुष्यकर्तृ के च' ( पा. ३/२/५३ ) इति ठवप्रत्ययः । बाणान्सुषुव इव सुषुवे किमु । इत्युत्प्रेक्षा ॥ ५७ ॥
अन्वयः - सः आज दक्षिणं हस्तं तूणमुखेन वामं व्यापारयन् अलक्ष्यत आकर्णकृष्टा योद्धः अस्य मौर्वी रिपुघ्नान् बाणान् सुषुवे इव ।
व्याख्या—स:-अज: आजौ = युद्धे दक्षिणं = अपसव्यं हस्तं = करं तूणस्य = निषंगस्य मुखं = विवरं तेन तूणमुखेन वामम् = अतिसुन्दरम् व्यापारयन् =प्रेरयन् अलक्ष्यत = अदृश्यत, बाणस्य धनुषि संघानं मोक्षणादिकन्तु नादृश्यतेत्यर्थः । सकृत् = एकवारम् आकर्णं = कर्णपर्यन्तम् कृष्टा = आवर्जिता आकर्णकृष्टा, युध्यतेऽसौ योद्धा तस्य योद्धुः = सांग्रामिकस्य अस्य = अजस्य मौर्वी = ज्या रिपून् = शत्रून् घ्नन्ति = नाशयन्तीति रिपुघ्नास्तान् रिपुघ्नान् = शत्रुविनाशकान् बाणान् = शरान् सुषुवे इव = सुषुवे किमु = जनयामास किमु ।
समासः–तूणस्य मुखं तृणमुखं तेन तूणमुखेन । कर्णयतीति कर्णः, कर्णमभिव्याप्य इति आकर्णम्, आकर्णमाकृष्टा आकर्णकृष्टा । रिपून् घ्नन्तीति रिपुघ्नास्तान् रिपुघ्नान् ।
C
हिन्दी - वह अज युद्ध में दाहिने हाथ को तरकश के ऊपर अतीव सुन्दरता (अथात् बहुत ही फुर्ती से ) फेरता हुआ दीखता था, (अर्थात् बाण निकालना,