________________
सप्तमः सर्गः
१३३ समीरण : तेन समीरणेन = वायुना धूमः = अग्निशिखा निव]त = अपसार्येत तुकिन्तु वह्निः अग्निः यतः यत्र कक्षः-तृणम् तत एव = तत्रैव प्रवर्तते गच्छतीति ।
समास:-महत् ओजः यस्य स महौजाः। अरीणां सैन्यमिति तत् अरिसैन्यम् । वहति हव्यमिति वह्निः ।
हिन्दी-अज की सेना को शत्रु सेना के द्वारा मार भगाने पर भी महाबलशाली अज शत्रुसेना में ही बढ़ते चले गये, क्योंकि वायु धूवे को भले ही उड़ा दे, लेकिन अग्नि तो (वायु के सहारे ) जहाँ घास फंस होगा वहाँ ही बढ़ता चला जायगा । अर्थात् जैसे पवन धूवे को उड़ा सकता है अग्नि को नहीं, वैसे ही शत्रुसेना अज की सेना को भले ही भगा दे, किन्तु अज को नहीं रोक सकती ॥५५॥
रथी निषङ्गी कवची धनुष्मान्दप्तः स राजन्य कमेकवीरः। निवारयामास महावराहः कल्पक्षयोवृत्तमिवार्णवाम्भः ॥५६॥
संजी:-रथीति । रथी रथारूढो निषङगी तूणीरवान् । 'तूणोपासंगतूणीरनिषंगा इषुधिद्वयोः' इत्यमरः। कवची वर्मधरो धनुष्मान् धनुर्धरो दृप्तो रणदृप्त एकवीरोऽसहायशूरः सोऽजो राजन्यकं राजसमूहम् । 'गोत्रोक्षो- (पा. ४।२।३९) इत्यादिना वुञ्प्रत्ययः। महावराहो वराहावतारो विष्णुः कल्पक्षये कल्पान्तकाल उद्वत्तमुद्वेलमर्णवाम्भ इव । निवारयामास ॥५६॥
अन्वयः--रथी निषङ्गी कवची धनुष्मान दृप्तः एकवीरः सः राजन्यकम् महावर।हः कल्पक्षयोवृत्तम् अर्णवाम्भः इव निवारयामास।
व्याख्या-रथः = स्यन्दनमस्यास्तीति रथी = रथारूढः, निषङगः-तूणीरः अस्यास्तीति निषंगी = तूणीरवान् कं वातं वञ्चति, इति सः, कवच:= वर्म अस्यास्तीति कवची = वर्मधरः, धनुरस्यास्तीति धनुष्मान् = चापधारी, दृप्तः = रणवितः, एकः अद्वितीयश्चासौ वीरः शूरः इति एकवीरः सः अज: राजन्यानां समूहः राजन्यकम् = राजसमूहम्, वरं=श्रेष्ठम् आहन्तीति वराहः, महांश्चासौ वराहः महावराहः = शूकरावतारो भगवान् विष्णु:, कल्प्यन्ते विरुद्धलक्षणया क्षीयन्ते प्राणिनः यत्र स कल्प:, कल्पस्य =प्रलयस्य क्षयः अन्तकालः तस्मिन् कल्पक्षये उत्तम् = उद्वेलम् तत् अर्णवस्य = समुद्रस्य अम्भः = जलं तत् अर्णवाम्भः इव = यथा निवारयामास = निवारितवान् ।