________________
१३२
रघुवंशमहाकाव्ये
व्याख्या-तौ=पूर्वोक्तौ उभौ = द्वौ व्यूहौ = सेनासमूहौ विभज्य संस्थापितौ इत्यर्थः, पश्चात् पृष्ठभागे पुर: अग्रभागे यौ मारुतौ = वायू तयोः पश्चात्पुरो मारुतयोः, पर्यायस्य = क्रमस्य वृत्तिः = वर्तनं तया पर्यायवृत्त्या प्रकषण वृद्धौ = वृद्धि गतौ, प्रवृद्धौ = महान्तौ, ऋच्छतीति मिः, महाश्चासौ अर्णवः महार्णवः तस्य ऊर्मी तरंगौ इति महार्णवोर्मी इव = यथा इतरेतरस्मात्=अन्योन्यस्मात् नास्ति व्यवस्था = नियमः यस्मिन् सः अव्यवस्थस्तम् अव्यवस्थं जयं = विजयं मङ्गं पराजयं च आपतुः = प्रापतुः प्राप्तवन्तौ इत्यर्थः, समबलयो: सेनयोः कयोश्चित् कदाचित् जय: कदाचिच्च पराजयः क्रमेण भवति स्म इति भावः।
समासः-पर्यायस्य वृत्तिः तया पर्यायवृत्त्या । अर्णा सि सन्ति यत्र सोऽर्णवः, महांश्चासौ अर्णव: महार्णवस्तस्य ऊर्मी तौ महार्णवोर्मी। नास्ति व्यवस्था यस्मिन् स तम् अव्यवस्थम् ।
हिन्दी-कोई दोनों सेनाएँ एक दूसरे से अनिश्चित हार जीत को उसी प्रकार प्राप्त कर रही थीं, जैसे कि आगे पीछे झोंका देने वाले वायु के क्रम से समुद्र की दो लहरें हटती बढ़ती रहती हैं ॥५४॥
परेण भग्नेऽपि बले महौजा ययावजः प्रत्यरिसैन्य मेव । धूमो निवर्येत समीरणेन यतस्तु कक्षस्तत एव वह्निः॥५५।।
संजी०-परेणेति । बले स्वसैन्ये परेण परबलेन भग्नेऽपि महौजा महाबलोऽजोऽरिसैन्यं प्रत्येव ययौ । तथा हि-समीरणेन वायुना धूमो निव]त कक्षादपसार्येत । वर्ततेय॑न्तात्कर्मणि संभावनायां लिङ् । वह्निस्तु यतो यत्र कक्षस्तृणम् । 'कक्षौ तु तृणवीरुधौ' इत्यमरः । तत एव तत्रैव ! प्रवर्तत इति शेष:। सार्वविभक्तिकस्तसिः ॥५५॥
अन्वयः-बले परेण भग्ने अपि महौजाः अजः अरिसैन्यं प्रत्येव ययौ, हि समीरणेन धूमः निवत्येत वह्निस्तु यतः कक्षः ततः एव (प्रवर्तते इति शेष:) । __ व्याख्या–बले = स्वकीयसैन्ये परेण शत्रुबलेन भग्ने मदिते = विना शितेऽपीत्यर्थः महत् प्रभूतम ओजः= बलं यस्य स महौजाः महाबल इत्यर्थः अजः = रघुपुत्रः अरीणांशत्रणां सैन्यं = सेना तत् अरिसैन्यं प्रति = सम्मखमेव ययौ = जगाम । तथा हि सम्यग् ईर्ते = गच्छतीति समीरणः, ईरयति = प्रेरयतीति वा