________________
१३६
रघुवंशमहाकाव्ये तनी हई भ्रकूटी रेखा साफ दीख रही थी तथा जिनके गले भालों से कटे थे और हुंकार या हूंकार करके आगे बढ़े थे ॥५८॥
सर्वैर्बलाङ्गैद्विरदप्रधानः सर्वायुधः कङ्कटभेदिभिश्च । सर्वप्रयत्नेन च भूमिपालास्तस्मिन्प्रज हयुधि सर्व एव ॥५९।।
संजी०--सर्वैरिति । द्विरदप्रधानैर्गजमुख्यैः सर्वैर्बलांगैः सेनांगैः । 'हस्त्यश्वरथपादातं सेनांगं स्याच्चतुष्टयम्' इत्यमरः । कङ्कटभेदिभि: कवचभेदिभिः 'उरश्छदः कङ्कटकोऽजगरः कवचोऽस्त्रियाम्' इत्यमरः। सर्वायुधैश्च बाह्यबलमुक्त्वान्तरमाह-सर्वप्रयत्नेन च सर्व एव भूमिपाला युधि तस्मिन्नजे प्रजहः । तं प्रजहरित्यर्थः। सर्वत्र सर्वकारकशक्तिसंभवात्कर्मणोऽप्यधिकरणविवक्षायां सप्तमी । तदुक्तम्- 'अनेकशक्तियुक्तस्य विश्वस्यानेककर्मणः । सर्वदा सर्वथाभावात्क्वचित्किचिद्विवक्ष्यते' ॥५९॥
अन्वयः-द्विरदप्रधानः सर्वैः बलाङगः कङ्कट भेदिभि: सर्वायुधः च सर्वप्रयत्नेन च सर्वे एव भूमिपाला: युधि तस्मिन् प्रजहः।
व्याख्या-द्वौ रदौ यस्य स द्विरदः, द्विरदाः गजाः प्रधानं = मुख्यं येषु तानि तैः द्विरदप्रधानः सर्वैः = सम्पूर्णैः बलस्य = सेनायाः अङगानि=हस्त्यश्वादीनि तः बलांगैः क = सुखं कटति= वर्षतीति कंकटः तं. कङ्कटं = कवचं भेत्तं शीलं येषां तानि तैः कंकटभेदिभिः, सर्वाणि तानि आयुधानि तैः सर्वायुधैः च = अपि सर्वश्चासौ प्रयत्नः सर्वप्रयत्नस्तेन सर्वप्रयत्नेन सम्पूर्णप्रयासेन च सर्वे = समरता: संमिलिता इत्यर्थः भूमि पृथिवीं पालयन्ति=रक्षन्ति ते भूमिपाला: युधि = संग्रामे तस्मिन् अजे प्रजह्रः = प्रहारं कृतवन्तः, अजं प्राहरन्नित्यर्थः ।
समास:-द्वौ रदौ यस्य स द्विरद: । द्विरदाः प्रधानानि येषु तानि द्विरदप्रधानानि तैः द्विरदप्रधानैः । बलस्य अंगानि तै: बलांगैः। कंकटं भेत्तु शीलं येषां तानि तैः कंकटभेदिभिः । सर्वाणि च तानि आयुधानि तैः सर्वायधः। सर्वश्चासौ प्रयत्नः सर्वप्रयत्नस्तेन सर्वप्रयत्नेन । भूमेः पाला: भूमिपालाः ।
हिन्दी---हाथी घोड़े पैदल आदि सब सेना के अंगों से कवच को काटने वाले सारे शस्त्रों से तथा पूरा बल लगाकर एक साथ सारे राजा युद्ध में अज पर प्रहार करने लगे ॥५९॥