________________
सप्तमः सर्गः
१२९
व्याख्या-द्वेष्टीति द्विषन् द्विषतः = द्वेषशीलस्य = शत्रोः खड्गेन = असिना हृतम् = छिन्नम् उत्तमञ्च तदंगम् = शिरः यस्य स द्विषत्खड्हृतोत्तमांगः कश्चित्= वीरः समानेऽहनि सद्यः = सपदि, विशेषेण मान्ति अस्मिन्निति, विगतं मानम् उपमा यस्य स इति वा विमानः, विमानस्य= व्योमयानस्य प्रभुः = स्वामी, तस्य भावस्तत्ता, इति विमानप्रभुता तां विमानप्रभुताम् = देवत्वमित्यर्थः उपेत्य प्राप्य वाम=सव्यञ्च तदंगमिति वामांगं वामांगे=वामभागे संसक्ता = संगिनी सुरांगना = देवांगना = अप्सरा इत्यर्थः यस्य स वामांगसंसक्तसुरांगनः सन् समरे = युद्धे समरांगणे इत्यर्थः नृत्यत् =नृत्यं कुर्वत् स्व = स्वकीयं कं बध्यते = छिद्यते अस्मात् तत् कबन्धं छिन्नशिरस्कं देहं ददर्श=दष्टवान्। ___ समासः-द्वेष्टीति द्विषन्, खण्ड्यतेऽनेनेति खड्गः द्विषतः खड्गः द्विषत्खड्गः, तेन हृतम् उत्तमांगं यस्य स द्विषत्खड्गहृतोत्तमांगः। विमानस्य प्रभुः विमानप्रभुस्तस्य भावस्तत्ता तां विमानप्रभुताम् । वामञ्च तदंगमिति वामांगम्, वामांगे संसक्ता सुराणाम् अङ्गना यस्य स वामांगसंसक्तसुरांगनः।
हिन्दी-शत्रु की तलवार से जिसका शिर कट गया ऐसा एक योद्धा, उसी क्षण (युद्ध में मरने के कारण ) विमान की प्रभुता को प्राप्त कर ( अर्थात् देवत्व को प्राप्त कर विमान में बैठकर ) युद्धस्थल में नाचते हुए अपने बिना शिर के देह को देखने लगा और उस वीर के वामांग में एक अप्सरा बैठी थी ॥५१॥
अन्योन्यसूतोन्मथनादभूतां तावेव सूतौ रथिनौ च कौचित् । व्यश्वो गदाव्यायतसंप्रहारौ भग्नायुधौ बाहुविमर्दनिष्ठौ ॥५२।।
संजी०-अन्योन्येति। कौचिद्वीरावन्योन्यस्य सूतयोः सारथ्योरुन्मथनान्निधनात्तावेव सूतौ रथिनौ योद्धारौ चाभूताम् । तावेव व्यश्वौ नष्टाश्वी सन्तौ गदाभ्यां व्यायतो दीर्घः संप्रहारो युद्धं ययोस्तावभूताम् । ततो भग्नायुधौ सन्तौ बाहुविमर्दे निष्ठा नाशो ययोस्तौ बाहुयुद्धसक्तावभूताम् । 'निष्ठा निष्पत्तिनाशान्ताः' इत्यमरः ॥५२॥ ___ अन्वयः-कौचित् ( वीरौ ) अन्योन्यसूतोन्मथनात् ती एव सूतौ रथिनौ च अभूताम्, तौ एव व्यश्वी सन्तौ गदाव्यायतसंप्रहारौ अभूताम्, भग्नायुधौ सन्तौ बाहुविमर्दनिष्ठौ च अभूताम् ।