________________
रघुवंश महाकाव्ये
अन्वयः - उपान्तयोः विहंगैः निष्कुषितम् भुजच्छेदं तेभ्यः आक्षिप्य पिशितप्रिया अपि शिवा केयूरकोटिक्षततालुदेशा सती अपाचकार ।
१२८
व्याख्या - उपान्तयोः = प्रान्तयोः विहायसि = आकाशे गच्छन्ति ते विहंगास्तैः विहंगैः पक्षिभिः निष्कुषितं = खण्डितम् भक्षणाय खण्ड्यमानमित्यर्थः भुजस्य = बाहो : छेद: खण्डमिति तम् भुजच्छेदम् तेभ्यः = पक्षिभ्यः आक्षिप्य - आच्छिद्य पिश्यते स्म इति पिशितं == मांसं प्रियम् = इष्टं यस्याः सा पिशितप्रिया अपि शिवः शिवा वा देवतास्ति यस्या: सा शिवा = शृगाली, केयूरस्य = अंगदस्य कोटि : = अग्रमिति केयूरकोटिस्तया क्षतः = विद्धः तालुदेश: = ककुदप्रदेशः यस्याः सा केयूरकोटिक्षततालुदेशा सती अपाचकार = अपसारयामास । भुजखण्डं परित्यज्यान्यत्र गतवतीत्यर्थः ।
समास: -- अन्तयोः समीपे, उपान्ते तयोः उपान्तयोः । भुजस्य छेदस्तं भुजच्छेदम् । पिशितं प्रियं यस्याः सा पिशितप्रिया । केयूरस्य कोटि : केयूरकोटिः, तया क्षतः तालुदेश: यस्याः सा केयूरकोटिक्षततालुदेशा |
हिन्दी - दोनों किनारों पर पक्षियों से नोचे ( खाए ) हुए भुजा के टुकड़े को पक्षियों से छीनकर मांस की लोभी सियारन, बाजूबन्द की नोक से तालु में कट जाने के कारण उसे छोड़कर भाग गई । अर्थात् ज्योंही सियारन ने पक्षियों से छीन कर खाने को मुँह मारा त्योंही बाजूबन्द की नोक से उसका तालु कट गया और मांसप्रिय होते हुए भी छोड़ कर चली गई ।। ५० ।।
कश्चिद्विषत्खङ्गहृतोत्तमाङ्गः सद्यो विमानप्रभुतामुपेत्य । वामाङ्गसंसक्तसुराङ्गनः स्वं नृत्यकबन्धं समरे ददर्श ।। ५१ ।।
संजी० - कश्चिदिति । द्विषतः खड्गेन हृतोत्तमाङ्गरिछन्नशिराः कश्चिद्वीरः सद्यो विमानप्रभुतां विमानाधिपत्यम् । देवत्वमित्यर्थः । उपेत्य प्राप्य वामाङ्गसंसक्ता सव्योत्सङ्गसङ्गिनी सुराङ्गना यस्य स तथोक्तः सन् समरे नृत्यत्स्वं निजं कबन्धं अशिरस्कं कलेवरं ददर्श । 'कबन्धोऽस्त्री क्रियायुक्तमपमूर्धकलेवरम्' इत्यमरः ॥५१॥
अन्वयः -- द्विषत्खङ्गहृतोत्तमांगः कश्चित् वीरः सद्यः विमानप्रभुताम् उपेत्य वामांग संसक्तसुरांगनः सन् समरे नृत्यत् स्वं कबन्धं ददर्श ।
1