________________
१२७
सप्तमः सर्गः
'कुल्याल्पा कृत्रिमा सरित्' इत्यमरः । रणक्षितिर्युद्धभूमिर्मृत्योः पानभूमिरिव रराज ॥४९॥
अन्वयः - शिलीमुखोत्कृत्तशिरः फलाढया च्युतैः शिरस्त्रः चषकोत्तरा इव शोणितमद्यकुल्या रणक्षितिः मृत्योः पानभूमिः इव रराज ।
व्याख्या -- शिली = शल्यं मुखे येषान्ते शिलीमुखास्तैः = बाणैः उत्कृत्तानि= छिन्नानि शिरांसि = मस्तकानि एव फलानि = आम्रादीनि इति शिलीमुखोत्कृत्तशिरः फलानि, तैः आढ्या = सम्पन्ना = परिपूर्णा तथोवता, च्युतैः = पतितैः शिरांसि त्रायन्ते इति शिरस्त्राणि तैः शिरस्त्रैः शीर्षण्यैः शीर्षकैरित्यर्थः, चषकः = पानपात्रम् उत्तरं यस्यां सा चषकोत्तरा इव = यथा शोणितानि = रुधिराणि एव मद्यं = मदिरा इति शोणितमद्यं तस्य कुल्या: = प्रवाहाः यस्यां सा शोणितमद्य कुल्या, रणस्य = युद्धस्य क्षितिः = भूमिरिति रणक्षितिः = युद्धस्थल मित्यर्थः । मरणं मृत्युस्तस्य मृत्योः = मरणस्य यमस्येत्यर्थः, पानस्य = मदिरापानस्य भूमिः = स्थानमिव= यथा रराज = शुशुभे ।
समास: - शिलीमुखैः उत्कृत्तानि शिरांसि एव फलानि तैः आढया, इति शिलीमुखोत्कृत्तशिरः फलाढ्या । शिरः त्रायन्त इति शिरस्त्राणि तैः शिरस्त्रैः । चषक: उत्तरं यस्यां सा चषकोत्तरा । रणस्य क्षितिः रणक्षितिः । शोणितमेव मद्यं तस्य कुल्या यस्यां सा शोणितमद्यकुल्या । पानस्य भूमिः पानभूमिः ।
हिन्दी - वह युद्धस्थल मृत्यु के मदिरालय की तरह सुशोभित हो रहा था । जो युद्धस्थल बाणों से कटे हुए शिर रूपी फलों से पूर्ण हैं ( भरा पड़ा है ) तथा जिसमें गिरे हुए लोह टोप रूपी प्याले हैं और जिसमें रक्त (खून) रूपी मदिरा की नदी बह रही है ॥ ४९ ॥
उपान्तयोनिष्कुषितं विहंगेराक्षिप्य तेभ्यः पिशितप्रियापि । केयूरकोटिक्षततालुदेशा शिवा भुजच्छेदमपाचकार ॥५०॥
संजी० - उपान्तयोरिति । उपान्तयोः प्रान्तयोविहंगैः पक्षिभिर्निष्कुषितं खण्डितम् । 'इण्निष्ठायाम्' (पा. ७।२।४७ ) इतीडागमः । भुजच्छेदं भुजखण्डं तेभ्यो विहंगेभ्यः आक्षिप्याच्छिद्य पिशितप्रिया मांसप्रियाऽपि शिवा क्रोष्ट्री । 'शिवः कील: शिवा क्रोष्ट्री' इति विश्वः । केयूरकोट्याऽङ्गदाग्रेण क्षतस्तालुदेशो यस्याः सा सती । अपाचकारापसारयामास । किरतेः करोतेर्वा लिट् ॥ ५०॥
,