________________
१२६
रघुवंशमहाकाव्ये संजी०-तनुत्यजामिति । तनुत्यजाम् । तनुषु निःस्पृहाणामित्यर्थः । वर्मभृतां कवचिनां संबन्धिभिवृहत्सु दन्तेषु पतद्भिरत एव विकोशः पिधानादुद्धतः । 'कोशोऽस्त्री कुड्मले खड्गपिधानेऽर्थी दिव्ययोः' इत्यमरः । असिभिः खड्गरुद्यन्तमुस्थितमग्नि विविग्ना भीता गजाः करशीकरेण शुण्डादण्डजलकणेन शमयांबभूवुः शान्तं चक्रुः ।।४८॥
अन्वयः-तनुत्यजां वर्मभृतां "संबन्धिभिः" बृहत्सु दन्तेषु पतद्भिः विकोशः असिभिः उद्यन्तम् अग्निम् विविग्नाः गजाः करशीकरण शमयांबभूवुः ।
व्याख्या-तनं = शरीरं त्यजन्ति ते तनुत्यजस्तेषां तनुत्यजां =शरीरेषु निस्पृहाणां वाणि= कवचानि बिभ्रति = धारयन्ति ये ते वर्मभृतस्तेषां वर्मभृताम् भटानां संबन्धिभिः, बृहत्सु-विशालेषु दाम्यति इति दन्तास्तेषु दन्तेषु =दशनेषु पतद्भिः=संलग्नः विगताः कोशाः येषान्ते विकोशास्तैः विकोशैः=पिधानात् बहिनिर्गतैः अस्यन्ते इति असय: तैः असिभिः = खड्गैः उद्यन्तम् = उत्थितम उत्पन्नमित्यर्थः अग्नि = वह्नि विविग्नाः = त्रस्ताः = भीताः गजाः = हस्तिन: करस्य = शुण्डादण्डस्य शीकरः = अम्बुकणः तेन करशीकरेण शमयांबभूवुः=शमयाञ्चक्रुः ।
समास:--तनुं त्यजन्ति इति तनुत्यजस्तेषां तनुत्यजाम् । वर्माणि बिभ्रतीति वर्मभृतस्तेषां वर्मभृताम् । विगताः कोशा येषां ते तैः विकोशैः । करस्य शीकरस्तेन करशीकरण।
हिन्दी--अपने शरीर की परवाह न करने वाले कवचधारी, वीरों की बड़े बड़े दाँतों पर नंगी तलवारों के लगने से उठी हुई आग को उस अग्नि से डरे हुए हाथियों ने अपने सूंड के जल से शान्त किया ॥४८॥
शिलीमुखोत्कृत्तशिरःफलाढया च्युतः शिरस्त्रैश्चषकोत्तरेव । रणक्षितिः शोणितमद्यकुल्या रराज मृत्योरिव पानभूमिः ।।४९।।
संजो० -शिलीमुखेति । शिलीमुखैणिरुत्कृत्तानि शिरांस्येव फलानि तैराढ्या संपन्ना । च्यतैभ्रष्टैः शिरांसि त्रायन्त इति शिरस्त्राणि शीर्षण्यानि । 'शीर्पण्यं च शिरस्त्रे च' इत्यमरः । तैश्चषकोतरा चषकः पानपात्रमुत्तरं यस्याः सेव । 'चषकोऽस्त्री पानपात्रम्' इत्यमरः । शोणितान्येव मद्यं तस्य कुल्याः प्रवाहा यस्यां सा।