________________
रघुवंशमहाकाव्ये
व्याख्या - कौचित् = यौद्धारौ अन्योन्यस्य = परस्परस्य सूतौ = सारथी तयोः उन्मथनं मरणं तस्मात्, अन्योन्यसूतोन्मथनात् तौ = योद्धारौ एव सूतौ = सारथी रथौ=स्यन्दने स्तः ययोस्तौ रथिनौ योद्धारी च अभूताम् = आस्ताम् । तौ एव विगतौ नष्टौ अश्वौ = घोटको ययोस्तौ व्यश्वौ सन्तौ गदाभ्यां = आयुधविशेषाभ्यां व्यायतः = दीर्घः संप्रहारः = युद्धं ययोस्तो 'गदाव्यायतसंप्रहारौ च अभूताम्, तत: आयुध्यन्तेऽनेनेति आयुधम् । भग्ने = खण्डिते आयुधे = = गदे ययोस्तौ भग्नायुधौ सन्तौ बाह्वो: विमर्दः यस्मिन् सः बाहुविमर्दः तस्मिन् बाहुविमर्दे - बाहुयुद्धे निष्ठा =नाशः ययोस्तौ बाहुविमर्दनिष्ठौ = बाहुयुद्धसंलग्नौ इत्यर्थः, अभूताम्= आस्ताम् ।
१३०
समासः - अन्योन्यस्य सूतौ अन्योन्यसूतौ तयोः उन्मथनमिति अन्योन्यसूतोन्मथनं तस्मात् अन्योन्यसूतोन्मथनात् । विगतौ अश्वौ ययोस्तौ व्यश्वौ । गदाभ्यां व्यायतः संप्रहारः ययोस्तौ गदाव्यायतसंप्रहारौ । भन्ने आयुधे ययोस्तौ भग्नायुध । बाह्वोः विमर्दे निष्ठा ययोस्तौ बाहुविमर्दनिष्ठौ ।
हिन्दो - और कोई दो योद्धा अपने-अपने सारथियों के मर जाने से वे ही दोनों सारथी और योद्धा भी हो गए, ( अर्थात् स्वयं रथ भी चला रहे थे और लड़ भी रहे थे ) और जब घोड़े भी मर गये तब गदाओं से देर तक युद्ध करने में प्रवृत्त हो गए और गदाओं के टूट जाने पर बाहु-युद्ध से नाश को प्राप्त होने लगे, अर्थात् बाहुयुद्ध ' में आसक्त हो गये ॥५२॥
परस्परेण श्रतयोः प्रहर्त्रीरुत्क्रान्तवाय्वोः समकालमेव । अमर्त्यभावेऽपि कयोश्चिदासीदेकाप्मरः प्रार्थितयोविवादः ॥ ५३ ॥
संजी० - परस्परेणेति । परस्परेणान्योन्यं क्षतयोः क्षततन्वोः समकालमेककालं यथा तथोत्क्रान्तवाय्वोर्युगपदुद्गतप्राणयोः एकैवाप्सराः प्रार्थिता याभ्यां तयोरेकाप्सरः प्रार्थितयोः । प्रार्थितैकाप्सरसोरित्यर्थः । 'वाहिताग्न्यादिषु' (पा.२|२| ३७, इति परनिपातः । अथवा - एकस्यामप्सरसि प्रार्थितं प्रार्थना ययोरिति विग्रहः । ‘स्त्रियां बहुष्वप्सरसः' इति बहुत्वाभिधानं प्रायिकम् । कयोश्चित्प्रहर्त्रीर्योधयोरमर्त्यभावेऽपि देवत्वेऽपि विवाद: कलह आसीत् । एकामिषाभिलाषो हि महद्वैरबीजमिति भावः ॥ ५३ ॥