________________
११५
सप्तमः सर्गः भूपालानां वाहिनी = सेना तां पार्थिववाहिनीम् भगीरथस्येयं भागीरथी तां भागीरथीं = गङ्गाम् उद्गच्छन्तस्तरंगा: यस्मिन स उत्तरंगः शोणः = शोणनामा नदः इव = यथा प्रत्यग्रहीत् = अभियुक्तवान् । तैः सर्वैः सह युद्धं चकारेत्यर्थः ।
समास :-न अल्पाः अनल्पाः, अनल्पाः योधा यस्य स तथोक्तस्तमनल्पयोधम् । पितुरागतः पित्र्यस्तम् । पृथिव्याः ईश्वरास्तेषां वाहिनी तां पाथिववाहिनीम् । उद्गच्छन्तस्तरंगा यस्मिन् स उत्तरंगः। रक्षायै इति रक्षार्थम् ।
हिन्दी-उस अज ने इन्दुमती की रक्षा के लिये बहुत से योधाओं के साथ अपने पुराने हितैषी मंत्री को आदेश देकर, उस मार्ग रोकने वाली राजसेना को वैसे ही रोक लिया जैसे कि गंगा को बड़ी-बड़ी तरंगवाला शोण नद (सोनभद्र) रोक लेता है ॥३६॥
पत्तिः पदाति रथिनं रथेशस्तुरंगसादी तुरगाधिरूढम् । यन्ता गजस्याभ्यपतद् गजस्थं तुल्यप्रतिद्वन्द्वि बभूव युद्धम् ॥३७॥
संजी०--पत्तिरिति । पत्तिः पादचारो योद्धा पदाति पादचारमभ्यपतत् । पदा पादाभ्यामततीति पदातिः । 'पादस्य पद्-' (पा. ६।३।५२ ) इत्यादिना पदादेशः । ‘पदातिपत्तिपदगपादातिकपदाजयः' इत्यमरः। रथेशो रथिको रथिनं रथारोहमभ्यपतत् । तुरंगसाद्यश्वारोहस्तुरगाधिरूढमश्वारोहमभ्यपतत् । 'रथिनः स्यन्दनारोहा अश्वारोहास्तु सादिनः' इत्यमरः । गजस्य यन्ता हस्त्यारोहो गजस्थं पुरुषमभ्यपतत् । इत्थमनेन प्रकारेण तुल्यप्रतिद्वन्द्वि एकजातीयप्रतिभटं युद्धं बभूव । अन्योन्यं द्वन्द्वं कलहोऽस्त्येषामिति ‘प्रतिद्वन्द्विनो योधा: । 'द्वन्द्वं कलयुग्मयोः' इत्यमरः ॥३७॥
अन्वयः-पत्तिः पदाति रथेशः रथिनं तुरंगसादी तुरगाधिरूढम् गजस्य यन्ता गजस्थम् अभ्यपतत् 'प्रत्येकं संबन्ध:' । इत्थम् तुल्यप्रतिद्वन्द्वि युद्धं बभूव ।
व्याख्या-पद्यते = पादाभ्यां गच्छतीति पत्तिः = पदातिः, पादाभ्यामततीति गच्छतीति पदातिस्तं पदाति = पादचारिणमभ्यपतत्=युयोध रथस्य = स्यन्दनस्य ईशः = स्वामी रथेशः = रथिकः रथोऽस्त्यस्येति रथी तं रथिनं = रथस्थितमभ्यपतत् तुरंगः = अश्वैः सीदति = गच्छतीति तुरंगसादी = अश्वारूढ: तुरंगं तुरगमधिरूढस्तं तुरगाधिरूढम् = अश्वसादिनमभ्यपतत् गजस्य हस्तिन: यन्ता हस्ति