________________
११४
रघुवंशमहाकाव्ये नयन्तं तम्=अजम्, बलिना=विरोचनपुत्रेण दैत्यराजेनेत्यर्थःप्रदिष्टा-दत्ता तां बलिप्रदिष्टां श्रीयते सर्वैरिति श्रीः तां श्रियं लक्ष्मी दैत्यराजलक्ष्मीमित्यर्थः आददानं = स्वीकुर्वाणं ( बलिना दत्तां देवराजलक्ष्मी, स्वीकुर्वन्तमित्यर्थः ) त्रिविक्रमस्यायं त्रैविक्रमस्तं त्रविक्रम-त्रिविक्रमसंबन्धिनं पादं वामनरूपविष्णुचरणम् इन्द्रस्य देवराजस्य शत्र:=प्रह्लादः ब्रह्माण्डपुराणानुसारमेवेदं कथनमित्यनुसंधेयम् । इव = यथा पथि=मार्गे रुरोध = रुद्धवान् । ___ समासः-भोजस्य कन्या तां भोजकन्याम् । राजन्यानां गणः इति राजन्यगणः । बलिना प्रदिष्टा तां बलिप्रदिष्टाम् । इन्द्रस्य शत्रुरिति इन्द्रशत्रुः ।
हिन्दी-अभिमानी उद्दण्ड उस राजसमूह ने भोज की कन्या को ले जाते हए अज को मार्ग में वैसे ही रोक लिया, जैसे कि राजा बलि से दी हुई राजलक्ष्मी को स्वीकार करनेवाले वामन भगवान् के चरण को प्रह्लाद ने रोका था। यह कथा ब्रह्माण्ड पुराण के अनुसार है कि प्रह्लाद ने वामन के चरण को रोका था ॥३५॥
तस्याः स रक्षार्थ मनल्पयोधमादिश्य पित्र्यं सचिवं कुमारः । प्रत्यग्रहीत्पार्थिववाहिनीं तां भागीरथीं शोण इवोत्तरंगः ॥३६॥
संजी०–तस्या इति । स कुमारोऽजस्तस्या इन्दुमत्या रक्षार्थमनल्पयोधं बहभटम । पितुरागतं पित्र्यम् । आप्तमित्यर्थः, सचिवमादिश्याज्ञाप्य तां पार्थिववाहिनीं राजसेनाम् । 'ध्वजिनी वाहिनी सेना' इत्यमरः। भागीरथीमुत्तरंगः शोण शोणाख्यो नद इव । प्रत्यग्रहीदभियुक्तवान् ।।३६॥
अन्वयः--स: कुमारः तस्याः रक्षार्थम् अनल्पयोधं पित्र्यं सचिवम् आदिश्य, तां पार्थिववाहिनीं भागीरथीम् उत्तरंगः शोण: इव प्रत्यग्रहीत् ।
व्याख्या-स: = प्रसिद्ध : कुमारयति खेलतीति कुमारः, कुमारः = अजः तस्याः = इन्दुमत्याः रक्षायै इति रक्षार्थ रक्षणार्थं अनल्पा: अधिकाः योधाः= भटाः यस्य स तं तथोक्तं पितुरागतं पित्र्यं पितृपरम्परागतम् विश्वस्तं सचिव जनसमवायं वातीति सचिवः तं सचिव मन्त्रिणम् आदिश्य आज्ञाप्य तांचमार्गे स्थितां वाहाः सन्त्यस्यां सा वाहिनी, पृथिव्याः ईश्वराः पार्थिवास्तेषां पार्थिवानां=