________________
११६
रघुवंशमहाकाव्ये पक: गजे तिष्ठतीति गजस्थस्तं गजस्थं = हस्त्यारूढ पुरुषमभ्यपतत् इत्थम् । अन्योन्यं द्वन्द्वं कलहोऽस्त्येषान्ते प्रतिद्वन्द्विनः तुल्याः = समानाः = एकजातीयाः प्रतिद्वन्द्विनः योधाः यस्मिन् तत् तुल्यप्नतिद्वन्द्वि युद्धं = रणं बभूव = जातम् ।
समास:-रथस्येश: रथेशः, तुरगमधिरूढः तुरगाधिरूढस्तं तुरगाधिरूढम् । तुल्या: प्रतिद्वन्द्विन: यस्मिन् तत् तुल्यप्रतिद्वन्द्वि ।
हिन्दी--( युद्ध आरम्भ हो गया ) पैदल पैदलों से लड़े, रथ वाले रथ में बैठों से और घुड़सवार घुड़सवारों से भिड़ गये, हाथी के सवार हाथीसवारों पर टूट पड़े, इस प्रकार बराबर के योद्धाओं का युद्ध हुआ । अर्थात् बराबर की लड़ाई हुई ॥३७॥
नदत्सु तूर्येष्वविभाव्यवाचो नोदीरयन्ति स्म कुलोपदेशान् । बाणाक्षररेव परस्परस्य नामोजितं चापभृतः शशंसुः ॥३८॥ संजी०-नदत्स्विति । तूर्येषु नदत्सु सत्सु, अविभाव्यवाचोऽनवधार्यगिरश्चापभृतो धानुष्का: कुलमुपदिश्यते यैस्ते कुलोपदेशास्तान्कुलनामानि नोदीरयन्ति स्म नोच्चारयामासुः। श्रोतुमशक्यत्वाद्वाचो नाब्रुवन्नित्यर्थः । किंतु बाणाक्षरैर्वाणेषु लिखिताक्षरैरेव परस्परस्यान्योन्यस्योजितं प्रख्यातं नाम शशंसुरूचुः ॥३८॥
अन्वयः-तूर्येषु नदत्सु सत्सु अविभाव्यवाचः चापभृतः कुलोपदेशान् नोदीरयन्ति स्म, 'किन्तु' बाणाक्षरैः एव परस्परस्य ऊर्जितं नाम शशंसुः ।
व्याख्या-तूर्येषु = रणवाद्येषु नदत्सु = अव्यक्तं ध्वनत्सु सत्सु न विभाव्याः अविभाव्या:, अविभाव्या: = अनवधार्याः ( स्वस्य परस्य वेति भेदेन ज्ञातुमशक्या इत्यर्थः श्रोतुमशक्यत्वात् ) वाचः गिर:= वचनानि येषान्ते अविभाव्यवाच: चापान्-धनूंषि बिभ्रति धारयन्ति ते चापभृतः=योधाः, कुलं = वंश: उपदिश्यते= प्रख्यायते कथ्यते यैस्ते तान् कुलोपदेशान् = कुलनामानि न उदीरयन्ति = नहि कथयन्ति स्म किन्तु बाणेषु लिखितानि बाणलिखितानि, बाणलिखितानि अक्षराणि बाणाक्षराणि, बाणाक्षरैः शरलिखिताक्षरैः एव परस्परस्य अन्योन्यस्य ऊजितं= विख्यातं = प्रसिद्धं नाम अभिधेयं शशंसुः कथयामासुः ।