________________
सप्तमः सर्गः
१११ भर्तापि तावत्क्रथ कैशिकानामनुष्ठितानन्तरजाविवाहः। सत्त्वानुरूपाहरणीकृतश्रीः प्रास्थापयद्राघवमन्वगाच्च ॥३२॥
संजी०–तथोक्तः क्रथकैशिकानां देशानां भर्ता स्वामी भोजोऽपि तावत् तदा सत्वानुरूपमुत्साहानुरूपं यथा तथा । आ समन्तात् अनेनानियतवस्तुदानमित्यर्थः । हरणं कन्याय देयं धनम् । 'यौतुकादि तु यद्देयं सुदायो हरणं च तत्' इत्यमरः । आहरणीकृता श्रीर्येन तथोक्तः सन्, राघवमजं प्रास्थापयत् प्रस्थापितवान् । स्वयमन्वगादनुजगाम च ॥३२॥
अन्वयः-अनुष्ठितानन्तरजाविवाहः ऋथकशिकानां भर्ता अपि तावत् सत्त्वानुरूपाहरणीकृतश्री: सन् राघवं प्रास्थापयत् स्वयं च अन्वगात् ।
व्याख्या-अनन्तरं =पश्चात् जाता अनन्तरजा, अनुष्ठितः = कृतः अनन्तरजायाः = अनुजायाः विवाहः = पाणिग्रहणसंस्कार: येन सः अनुष्ठितानन्तरजाविवाहः, क्रथकैशिकानां = विदर्भ देशानां भर्ता = नाथः भोजः अपि तावत् = तदा विवाहकाले सतो भावः सत्त्वं, सीदन्ति अस्मिन् गुणादयः सत्त्वं, सत्त्वस्य =द्रव्यस्य, (उत्साहस्य च) अनुरूपं = सदृशं तत् सत्त्वानुरूपं यथा तथा (आसमन्तात् हरणं सुदायः= कन्याय देयं धनमित्यर्थः) आहरणीकृता= सुदायीकृता (कन्याय देयेत्यर्थः) श्रीः = लक्ष्मी: येन स तथोक्तः सन् राघवं = रघुपुत्रमजं प्रास्थापयत् = प्रस्थापितवान् स्वयं = भोज: अन्वगात् =अन्वव्रजत् । किचिद् दूरं तेन सह गतवान् ।
समासः-अनुष्ठितः अनन्तरजायाः विवाहो येन स तथोक्तः । सत्त्वस्य अनुरूपमिति सत्वानुरूपम् । आसमन्तात् हरणमाहरणं, न आहरणमिति अनाहरणम्, अनाहरणमाहरणं संपद्यमाना कृता इति आहरणीकृता, सत्त्वानुरूपं यथा तथा आहरणीकृता श्री: येन सः सत्त्वानुरूपाहरणीकृतश्रीः ।
हिन्दी-छोटी बहन के विवाह को संपन्न करने वाले विदर्भदेश के राजा भोज ने, अपनी सम्पत्ति व सामर्थ्य के अनुसार खूब दहेज देकर रघु के पुत्र अज को बिदा कर दिया और उनके साथ कुछ दूर तक स्वयं भोज भी पहुँचाने गये ॥३२॥
तिस्रस्त्रिलोकप्रथितेन सार्धमजेन मार्गे वसतीरुषित्वा । तस्मादपावर्तत कुण्डिनेशः पर्वात्यये सोम इवोष्णरश्मेः ॥३३॥