________________
११२
रघुवंशमहाकाव्ये संजी०–तिस्र इति । कुण्डिनं विदर्भनगरं तस्येशो भोजस्त्रिषु लोकेषु प्रथितेनाजेन सार्धं मार्गे पथि तिस्रो वसती रात्रीरुषित्वा स्थित्वा । 'वसती रात्रिवेश्मनो:' इत्यमरः । 'कालाध्वनोरत्यन्तसंयोगे' (पा. २।३।५) इति द्वितीया । पर्वात्यये दर्शान्त उष्णरश्मेः सूर्यात् सोमश्चन्द्र इव । तस्मादजादपावर्तत । तं विसृज्य निवृत्त इत्यर्थः॥३३॥ __अन्वयः-कुण्डिनेशः त्रिलोकप्रथितेन अजेन सार्ध मार्गे तिस्रः वसतीः उषित्वा, पर्वात्यये उष्णरश्मेः सोमः इव तस्मात् अपावर्तत।
व्याख्या-कुण्डिनस्य=विदर्भनगरस्य ईशः = स्वामी =भोजः त्रिषत्रिसंख्य के.षु लोकेषु =भुवनेषु प्रथितः प्रसिद्धस्तेन त्रिलोकप्रथितेन अजेन= रघुपुत्रण साधंसह मार्ग=अध्वनि तिस्रः त्रिसंख्यका: वसती: रात्री उषित्वा=स्थित्वा, रात्रित्रयं यावत तेन सह निवासं कृत्वेत्यर्थः, पर्वणः=दर्शस्य अमावस्याया इत्यर्थः अत्य यः=अन्तस्तस्मिन् पर्वात्यये उष्णा: = धर्माः रश्मयः = करा: यस्य स तस्मात् उष्णरश्मे:-सूर्यात् सोमः चन्द्रः इव-यथा तस्मात् अजात् अपावर्तत-प्रतिनिवृत्तः।
समास:-त्रयाणां लोकानां समाहारस्त्रिलोकं तत्र प्रथितस्तेन त्रिलोकप्रथितेन, कुण्डिनस्येशः कुण्डिनेशः, पर्वणः अत्ययस्तस्मिन् पर्वात्यये, उष्णा रश्मयो यस्य तस्मात् उष्णरश्मेः।
हिन्दी-कुण्डिन नगर के राजा भोज, तीनों लोकों में विख्यात उस अज के साथ मार्ग में तीन रात तक निवास करके वैसे ही लौट आए जैसे अमावास्या की समाप्ति होने पर सूर्य के पास से चन्द्रमा लौट आता है ॥३३॥
प्रमन्यवः प्रागपि कोसलेन्द्र प्रत्येकमात्तस्वतया बभूवुः । अतो नृपाश्चक्षमिरे समेताः स्त्रीरत्नलाभं न तदात्मजस्य ॥३४॥
संजी०-प्रमन्यव इति । नृपा राजानः प्रागपि प्रत्येकमात्तस्वतया दिग्विजये गृहीतधनत्वेन कोसलेन्द्र रघौ प्रमन्यवो रूढवैरा बभूवुः । अतो हेतोः समेत : संगता: स तस्तदात्मजस्य रघुसूनोः स्त्रीरत्नलाभं न चक्षमिरे न सेहिरे ॥३४॥
अन्वयः-नपाः प्राग अपि प्रत्येकम् आत्तस्वतया कौसलेन्द्र प्रमन्यवः बभूवः, अतः समेताः सन्तः तदात्मजस्य स्त्रीरत्नलाभं न चक्षमिरे ।
व्याख्या-नुन्जनाम् पान्ति = रक्षन्तीति नृपाः भूपालाः प्रागपि स्वयंवरात् पूर्वमपि प्रत्येकं पृथक् पृथक्-एककमित्यर्थः आत्तं गृहीतं स्वं-धनं येषां ते